जनतादर्शने समस्याः श्रुत्वा मुख्यमन्त्रिणा उक्तम्— भूमिम् अतिक्रमणमुक्तां कारयन्तु, दस्यूभ्यः नैयायिकदण्डं ददतु
गोरखपुरम्, २४ सेप्टेम्बरमासः (हि.स.)। जनसेवां सर्वोपरि मन्यमानः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे प्रातः वर्षायामपि ‘जनतादर्शनम्’ अकरोत्। दूरदूरप्रदेशेभ्यः आगतेभ्यः जनैः सह गोरखनाथमन्दिरे मिलित्वा सः तेषां समस्याः अशृणोत्। समस्य
बारिश के बीच गोरखनाथ मंदिर में जनता दर्शन के दौरान लोगों की समस्याएं सुनते मुख्यमंत्री योगी आदित्यनाथ।


बारिश के बीच गोरखनाथ मंदिर में जनता दर्शन के दौरान लोगों की समस्याएं सुनते मुख्यमंत्री योगी आदित्यनाथ।


बारिश के बीच गोरखनाथ मंदिर में जनता दर्शन के दौरान लोगों की समस्याएं सुनते मुख्यमंत्री योगी आदित्यनाथ।


बारिश के बीच गोरखनाथ मंदिर में जनता दर्शन के दौरान लोगों की समस्याएं सुनते मुख्यमंत्री योगी आदित्यनाथ।


गोरखपुरम्, २४ सेप्टेम्बरमासः (हि.स.)। जनसेवां सर्वोपरि मन्यमानः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे प्रातः वर्षायामपि ‘जनतादर्शनम्’ अकरोत्। दूरदूरप्रदेशेभ्यः आगतेभ्यः जनैः सह गोरखनाथमन्दिरे मिलित्वा सः तेषां समस्याः अशृणोत्। समस्याभिः सह आगतेभ्यः जनेभ्यः मुख्यमन्त्रिणा समाधानस्य आश्वासनं दत्तम्। अस्मिन् अवसरे अवैधभूम्यतिक्रमणस्य सूचनासु सः अधिकारिभ्यः निर्देशं दत्तवान् यत् भूमिं अतिक्रमणमुक्तां कारयित्वा बलात् अतिक्रमणं कुर्वद्भ्यः जनभ्यः कठोरं नैयायिकदण्डं दापयन्तु।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गोरखपुरप्रवासे अस्ति। गुरुवासरे वर्षायाः कारणेन मुख्यमन्त्रिणः निर्देशानुसारं जनानां सुविधायै गोरखनाथमन्दिरपरिसरे महन्तदिग्विजय-नाथ-स्मृतिभवनस्य सभागारे जनता-दर्शनस्य आयोजनं कृतम्। अस्मिन् अवसरे मुख्यमन्त्री योगी प्रायः द्विशतं जनानां समस्याः अशृणोत् तथा च अधिकारिभ्यः तासां समाधानस्य निर्देशं दत्तवान्। आसन्दिकासु उपविष्टानां जनानां समीपं गत्वा मुख्यमन्त्री तेषां पीडां ज्ञातवान् तथा च सर्वेषां समस्याः समाधानं सुनिश्चितं भविष्यतीति आश्वासनं दत्तवान्। जनतादर्शने मुख्यमन्त्रिणा उपस्थितेभ्यः अधिकारिभ्यः निर्देशितं यत् प्रत्येकं पीडितस्य समस्यायां संवेदनशीलतया ध्यानं दत्त्वा तस्याः तत्परतया निर्धारितसमये पारदर्शकरूपेण निराकरणं कारयन्तु।

अस्मिन् क्रमे काश्चन महिलाः तासां भूमेः बलात् अतिक्रमणं कृतमिति सूचनाम् अकरोत्। तदनन्तरं मुख्यमन्त्रिणा अधिकारिभ्यः निर्देशितं यत् यदि कश्चित् प्रभावशाली व्यक्ति निर्धनस्य भूमिं बलात् हृतवान् अस्ति, तर्हि तस्य विरुद्धं कठोरनैयायिककार्यवाहीं क्रियताम्। भूमिः अवैधात् अथवा बलात्कृतात् अतिक्रमणात् मुक्ता कारयितव्या।

प्रतिवारवत् जनतादर्शने केचन जनाः गम्भीररोगाणां चिकित्सायै आर्थिक-सहायतां याचित्वा अपि आगतवन्तः। एतादृशेषु प्रकरणेषु मुख्यमन्त्री योगी अधिकारिभ्यः निर्देशं दत्तवान् यत् चिकित्सालयस्य व्ययकलनस्य प्रक्रियां शीघ्रं पूर्णं कारयित्वा प्रस्तावं शासनाय प्रेषयन्तु। मुख्यमन्त्रिणः विवेकाधीनकोषात् चिकित्सायै पर्याप्तधनराशिः प्रदास्यते।

Hindusthan Samachar / Divya Ranjan