Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे ग्रेटरनोएडानगरस्य यमुनाएक्सप्रेसमार्गे स्लीपरबसदुर्घटनायां संवेदनां व्यक्तवान्। सः प्रधानमन्त्रिराष्ट्रीयसहायताकोषात् मृतकानां परिजनेभ्यः द्विद्विलक्षरूप्यकाणि, घायतेभ्यः पञ्चाशत्पञ्चाशत्सहस्ररूप्यकाणि च आर्थिकसहायतां दातुं घोषणां कृतवान्।
प्रधानमन्त्री मोदी एक्स इत्यत्र लिखितवान्— “उत्तरप्रदेशस्य ग्रेटरनोएडानगरे बसयाने अग्निदुर्घटनायां जनानां मृत्योः वार्तां श्रुत्वा अत्यन्तं दुःखितोऽस्मि। ये स्वकीयान् प्रियजनान् नष्टवन्तः, तेषां प्रति मम संवेदना। घायतानां शीघ्रस्वास्थ्यलाभस्य कामनां करोमि। प्रधानमन्त्रिराष्ट्रीयसहायताकोषात् मृतकानां परिजनेभ्यः द्विद्विलक्षरूप्यकाणां अनुग्रहराशिः प्रदास्यते। घायतेभ्यः पञ्चाशत्सहस्ररूप्यकाणि प्रदास्यन्ते।”
उल्लेखनीयं यत् देहलीनगरस्य कश्मीरीद्वारात् उत्तरप्रदेशस्य महोबां प्रति गच्छत्यां द्विस्तरीयायां बसयाने बुधवासरे अर्धरात्रौ यमुनाएक्सप्रेसमार्गस्य त्रयस्त्रिंशत्तमकिलोमीटरे अग्निः प्रज्वलिता। तस्मिन् समये बसयाने पञ्चत्रिंशत् जनाः सवाराः आसन्। अस्यां दुर्घटनायां महिलाम् एकां सहितं नव जनाः अग्निदग्धाः भूत्वा मृताः।
---------------
Hindusthan Samachar / Dheeraj Maithani