Enter your Email Address to subscribe to our newsletters

कौशांबी, 24 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य कौशाम्बीजनपदे चायलनगरस्य लालबहादुर-अन्तर्महाविद्यालये गुरुवासरे छात्रछात्राभिः महाविद्यालयप्रबन्धनस्य विरुद्धं विरोधप्रदर्शनं प्रारब्धम्। मलिनशौचालयैः दुर्व्यवस्थितया पेयजलव्यवस्थया च अप्रसन्नाः विद्यार्थिनः कक्षायां पठनकार्यं स्थगयित्वा परिसरस्य अन्तः प्रदर्शनम् आरब्धवन्तः। अस्मिन् समये मन्दवृष्टेः अपि छात्रछात्राः कक्षाभ्यः बहिः स्थित्वा व्यवस्थासु सुधारस्य आग्रहं कृतवन्तः।
प्रदर्शनं कुर्वत्यः छात्राः आरोपितवत्यः यत् महाविद्यालयस्य शौचालयाः दीर्घकालात् अत्यन्तं मलिनाः सन्ति। अनेकवारं शिकायतां कृत्वा अपि स्वच्छतायाः व्यवस्थायाश्च सुधारः न कृतः। अपरतः पेयजलस्य कृते महाविद्यालयपरिसरे स्थापितासु दुर्व्यवस्थितासु जलटङ्कीसु एव निर्भरः भवितव्यं भवति। छात्राणां कथनमस्ति यत् एताभिः समस्याभिः ते प्रतिदिनं कष्टस्य सम्मुखीभवन्ति।
विद्यार्थिनां कथनानुसारं प्रायः एकमासपूर्वम् भारतीयजनतापार्टी इत्यस्य प्रदेशोपाध्यक्षया विधायकया च पूजा पाल इत्यनया अपि महाविद्यालयस्य अव्यवस्थानां विषये शिकायतां कृता आसीत्, किन्तु तदनन्तरमपि परिस्थितौ विशेषः परिवर्तनं न अभवत्।
महाविद्यालयस्य प्राचार्यः सन्तोषमिश्रः अवदत् यत् छात्राणां समस्याः विषये प्रबन्धतन्त्रं पूर्वमेव अवगतं कारितम् आसीत्। छात्रैः सह वार्तालापं कृत्वा तेषां समस्यासु समाधानं कर्तुं तथा शीघ्रमेव शिक्षणकार्यं पुनः प्रारब्धुं प्रयासः क्रियते।
---------------
Hindusthan Samachar / Dheeraj Maithani