उत्तराखण्डे यूनां कौशलविकासस्य विस्तारः भविष्यति, चतुरः नगरेषु प्रशिक्षणकेन्द्राणि उद्घाट्यन्ते
देहरादूनम्, 24 सितंबरमासः (हि.स.)।उत्तराखण्डस्य युवभ्यः उद्योगानां आवश्यकतानुरूपं कौशलप्रशिक्षणं रोजगारस्य च अवसरान् प्रदातुं कौशलविकाससेवायोजनविभागस्य एमत्रिएम्फाउण्डेशन इत्यस्य च मध्ये गुरुवासरे सहमतिज्ञापनम् अर्थात् एमओयू अभवत्। अस्य अन्तर्गतं द
कौशल विकास एवं सेवायोजन विभाग और एम3एम फाउंडेशन के बीच समझौता ज्ञापन (एमओयू) कार्यक्रम।


देहरादूनम्, 24 सितंबरमासः (हि.स.)।उत्तराखण्डस्य युवभ्यः उद्योगानां आवश्यकतानुरूपं कौशलप्रशिक्षणं रोजगारस्य च अवसरान् प्रदातुं कौशलविकाससेवायोजनविभागस्य एमत्रिएम्फाउण्डेशन इत्यस्य च मध्ये गुरुवासरे सहमतिज्ञापनम् अर्थात् एमओयू अभवत्। अस्य अन्तर्गतं देहरादूनं हल्द्वानीं काशीपुरं पिथौरागढं च प्रशिक्षणकेन्द्राणि प्रारप्स्यन्ते।

सहमत्यनुसारं युवभ्यः विद्युद्वाहनं, स्वचालितवाहनं, स्वचालितविद्युत्प्रणालीरक्षणं, अन्तर्जालवस्तुतन्त्रं तथा नलिकाकार्यं इत्यादिषु रोजगारोपयोगिषु प्रशिक्षणं प्रदास्यते। प्रशिक्षणेन सह उद्योगैः सम्पर्कः, जीविकाप्राप्त्यै साहाय्यं तथा प्रशिक्षणानन्तरं स्थायिजीविकायै अपि विशेषः बलः प्रदास्यते।

देहरादूने आयोजिते कार्यक्रमे कौशलविकाससेवायोजनविभागस्य प्रशिक्षणनिदेशकः सञ्जयकुमारः तथा एमत्रिएम्फाउण्डेशनस्य प्रबन्धन्यासिकाध्यक्षा च डॉ. ऐश्वर्यमहाजनः एमओयू इति समझौताज्ञापने हस्ताक्षरं कृतवन्तौ।

प्रारम्भिकचरणे चतुर्णां प्रशिक्षणकेन्द्राणां सञ्चालनस्य योजना अस्ति। स्थानीयपरिस्थितीनां सम्भावितलाभार्थिनां च उपलब्धताम् आधारीकृत्य अल्मोडायां बडकोटे च अपि केन्द्राणि स्थापयितुं शक्यन्ते। प्रत्येकस्मिन् केन्द्रे स्थानीयोद्योगानां मागं रोजगारस्य सम्भावनां च आधारीकृत्य न्यूनातिन्यूनं द्वौ पाठ्यक्रमौ सञ्चालयिष्येते।

युवभ्यः कनिष्ठतन्त्रज्ञः विद्युद्वाहनम्, स्वचालितविद्युत्प्रणालीरक्षणम्, स्वचालितवाहनमरम्मतारक्षणम्, अन्तर्जालवस्तुतन्त्रम् तथा नलिकाकार्यम् इत्यादिषु पाठ्यक्रमेषु प्रशिक्षणं प्रदास्यते। विभागानुसारं स्थानीयोद्योगानां मागं रोजगारस्य सम्भावनां च दृष्ट्वा पाठ्यक्रमानां चयनं भविष्यति।

एमत्रिएम्फाउण्डेशनस्य अध्यक्ष्या न्यासिनी च डॉ. पायल कनोडिया उक्तवती यत् अस्य सहयोगस्य उद्देश्यं युवभ्यः उद्योगानां आवश्यकतानुरूपं कौशलं प्रदाय रोजगारस्य आजीविकायाः च अवसरैः तान् सम्बद्धुं वर्तते। तया उक्तं यत् अस्य सहयोगस्य माध्यमेन राज्ये कौशलविकासं अधिकमुद्योगकेन्द्रितं परिणामोन्मुखं च कर्तुं प्रयासः क्रियते।

कार्यक्रमे सेवायोजनस्य उपनिदेशिका चन्द्रकान्ता, प्रशिक्षणस्य उपनिदेशकः निरञ्जनखुगशालः, प्रधानाचार्यः दिनकररौतेलः, यूकेएसडीएमस्य नोडलाधिकारी विनीताबडोनी तथा एमत्रिएमस्य प्रतिनिधिः अरविन्दकुमारशर्मा इत्यादयः विभागीयाः अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani