बङ्गाले २०३५ पर्यन्तम् एकलक्षकोटिरूप्यकेभ्यः अधिकं निवेशं करिष्यति अदाणीसमूहः, ‘अदाणी आरोग्यमन्दिरस्य’ शिलान्यासः
कोलकाता, २४ सेप्टम्बरमासः (हि.स.)। अदाणीसमूहस्य अध्यक्षः गौतमः अदाणी गुरुवासरे न्यूटाउन-नगरे प्रस्तावितस्य ‘अदाणी आरोग्यमन्दिरस्य’ शिलान्यास-समारोहे राज्याय बृहन्निवेशस्य घोषणां कृतवान्। तेन उक्तं यत् अस्यां स्वास्थ्यपरियोजनायां चतुरधिकसहस्र-कोटिरू
मुख्यमंत्री शुभेंदु अधिकारी के साथ गौतम अडानी


कोलकाता, २४ सेप्टम्बरमासः (हि.स.)। अदाणीसमूहस्य अध्यक्षः गौतमः अदाणी गुरुवासरे न्यूटाउन-नगरे प्रस्तावितस्य ‘अदाणी आरोग्यमन्दिरस्य’ शिलान्यास-समारोहे राज्याय बृहन्निवेशस्य घोषणां कृतवान्। तेन उक्तं यत् अस्यां स्वास्थ्यपरियोजनायां चतुरधिकसहस्र-कोटिरूप्यकाणां निवेशः भविष्यति, येन दशसहस्राधिकाः रोजगारा-वसराः सृजिताः भविष्यन्ति इति अपेक्षा अस्ति। एतदतिरिक्तं तेन महत्त्वपूर्णघोषणा कृता यत् तस्य समूहः २०३५ तमवर्षपर्यन्तं पश्चिमबङ्गस्य विभिन्नेषु क्षेत्रेषु एकलक्षकोटिरूप्यकेभ्यः अधिकं निवेशं कर्तुं योजनां करोति।

न्यूटाउन-नगरे आयोजिते भूमिपूजन-कार्यक्रमे गौतमेन अदाणिना सह तस्य पत्नी प्रीतिः अदाणी तथा पुत्रः करणः अदाणी अपि सम्मिलितौ। शिलान्याससमये कथितं यत् ‘अदाणी आरोग्यमन्दिरम्’ द्विसहस्रशय्यायुक्तं लाभरहितं चिकित्सासंस्थानं भविष्यति। जनसेवां दृष्ट्वा अस्य संस्थानस्य शय्यासु सहस्रं शय्याः राज्यसर्वकारस्य केन्द्रसर्वकारस्य च स्वास्थ्यबीमा-योजनान्तर्गतं पात्रेभ्यः आर्थिकरूपेण दुर्बलेभ्यः वर्गेभ्यः आरक्षिताः भविष्यन्ति। अस्मिन् अत्याधुनिके परिसरे केवलं चिकित्सालयः एव न भविष्यति, अपि तु चिकित्सामहाविद्यालयः उन्नताः अनुसन्धानसुविधाश्च अपि भविष्यन्ति।

राज्यं प्रति स्वकीयां प्रतिबद्धतां प्रकटयन् गौतमः अदाणी उक्तवान् यत् स्वास्थ्यसेवाः यत्र व्यक्तिगतजीवनं परिवर्तयितुं शक्नुवन्ति, तत्र आधारभूतसंरचना लक्षशः जनानां कृते उपलब्धान् अवसरान् परिवर्तयितुं शक्नोति। अत एव बङ्गालं प्रति तस्य बृहती प्रतिबद्धता अत्रैव प्रारभ्यते।दीर्घकालिकयोजनायाः अन्तर्गतं अदाणी-समूहः २०३५ तमवर्षपर्यन्तं पत्तनानि, रसदव्यवस्था, विद्युदुत्पादनम्, मार्गाः, सेतवः, राजमार्गाः, हरितसीमेण्ट् तथा हाइपरस्केल-दत्तांशकेन्द्राणि इत्यादिषु महत्त्वपूर्णेषु औद्योगिकेषु आधारभूत-संरचनासम्बद्धेषु च क्षेत्रेषु एकलक्षकोटिरूप्यकेभ्यः अधिकं निवेशं करिष्यति। एतदतिरिक्तं समूहः कोलकाता-नगरस्य ऐतिहासिक-प्रशासनिकभवनस्य ‘राइटर्स बिल्डिङ्ग्’ इत्यस्य जीर्णोद्धारे अपि पूर्णसहयोगं दास्यति इति घोषणां कृतवान्।

बङ्गालस्य सामरिकस्थानस्य महत्त्वं प्रकाशयन् अदाणी उक्तवान् यत् अस्मिन् राज्ये भारतस्य औद्योगिकक्षेत्राणां, पूर्वोत्तरप्रदेशस्य तथा बङ्गालस्य उपसागरस्य च मध्ये प्रमुखसमुद्री-रसदसम्पर्करूपेण कार्यं कर्तुं महती क्षमता अस्ति। तेन बलं दत्तं यत् एषा भौगोलिकस्थितिः बङ्गालाय तादृशं आधारभूतसंरचनात्मकं लाभं प्रददाति, येन तुलनां कर्तुं शक्नुवन्तः प्रदेशाः अतीव अल्पाः सन्ति। अतः बङ्गालः केवलं प्रवेशद्वाररूपेण न, अपि तु ततोऽपि महत्तरां आर्थिकशक्तिं भवितुं क्षमतां धारयति।

Hindusthan Samachar / Divya Ranjan