कोलकातायां गौतम-अदाणिना मुख्यमन्त्रिणा सह ‘अदाणी आरोग्यमन्दिरस्य’ कृतः शिलान्यासः
कोलकाता, २४ सेप्टेम्बरमासः (हि.स.)। अदाणीसमूहस्य अध्यक्षः गौतमः अदाणी गुरुवासरे न्यूटाउन-क्षेत्रे चतुःसहस्रकोटि-रूप्यकाणां व्ययेन निर्मीयमाणस्य द्विसहस्रशय्यायुक्तस्य चिकित्सालयस्य चिकित्सामहाविद्यालयस्य च निर्माणस्य घोषणां कृतवान्। अस्मिन् अवसरे म
कोलकाता में अदानी आरोग्य मंदिर का उद्घाटन


कोलकाता, २४ सेप्टेम्बरमासः (हि.स.)। अदाणीसमूहस्य अध्यक्षः गौतमः अदाणी गुरुवासरे न्यूटाउन-क्षेत्रे चतुःसहस्रकोटि-रूप्यकाणां व्ययेन निर्मीयमाणस्य द्विसहस्रशय्यायुक्तस्य चिकित्सालयस्य चिकित्सामहाविद्यालयस्य च निर्माणस्य घोषणां कृतवान्। अस्मिन् अवसरे मुख्य-मन्त्रिणा शुभेन्दु-अधिकारी-महोदयेन सह अस्य बहुविशेषतायुक्तस्य चिकित्सालयस्य आधारशिलां स्थापयन् सः बङ्गालस्य स्वास्थ्यस्य आधारभूतसंर-चनायाश्च विकासस्य विषये स्वकीयां विस्तृतां दृष्टिं प्रस्तुतवान्।

गौतमः अदाणी स्वीयसम्बोधने उक्तवान् यत् ‘अदाणी आरोग्यमन्दिरम्’ विश्वस्तरीयं लाभरहितं च चिकित्सासंस्थानं भविष्यति। अस्य द्विसहस्रशय्यासु सहस्रं शय्याः राज्यसर्वकारस्य केन्द्रसर्वकारस्य च स्वास्थ्यबीमायोजनान्तर्गतं पात्रेभ्यः आर्थिकरूपेण दुर्बलेभ्यः वर्गेभ्यः आरक्षिताः भविष्यन्ति। अस्य संस्थानस्य केन्द्रे उन्नतैः अनुसन्धान-परिचर्यासुविधाभिः सुसज्जितं अत्याधुनिकं चिकित्सामहाविद्यालयं भविष्यति। अस्याः विशालायाः स्वास्थ्य-परियोजनायाः माध्यमेन राज्यस्य स्वास्थ्यसेवाक्षेत्रे दशसहस्राधिकाः रोजगा-रावसराः सृज्यन्ते इति प्रबलसम्भावना अस्ति।

तेन स्पष्टं कृतं यत् सुदृढस्य बङ्गालस्य निर्माणं कस्यचित् एकस्य संस्थानस्य सीमितं कार्यं नास्ति। स्वास्थ्यसेवाः यत्र व्यक्तिगतजीवने परिवर्तनं कर्तुं शक्नुवन्ति, तत्र सुदृढा आधारभूतसंरचना लक्षशः जनानां कृते नवीनावसराणां द्वाराणि उद्घाटयितुं शक्नोति।

बङ्गालस्य भौगोलिकस्थितिं सामरिक-दृष्ट्या महत्त्वपूर्णां वर्णयन् तेन उक्तं यत् एतत् राज्यं भारतस्य विशालानाम् औद्योगिकक्षेत्राणां पूर्वोत्तरप्रदेशस्य च बङ्गालस्य उपसागरं प्रति संयोजकः स्वाभाविकः समुद्रीसेतुः अस्ति। अस्मिन् राज्ये एशियायाः बृहत्तमं एकीकृतम् औद्योगिकमञ्चं भवितुं महती क्षमता अस्ति।

औद्योगिकविकासेन सह सांस्कृतिक-संरक्षणस्य विषये अपि बलं ददन् अदाणी बङ्गालस्य वास्तुकलां, कलां, साहित्यं उत्सवांश्च अमूल्यान् उक्तवान्। तेन घोषणां कृता यत् तस्य समूहः ऐतिहासिकस्य ‘राइटर्स बिल्डिङ्ग’ इत्यस्य जीर्णोद्धारे, कुमारटुलीघाटस्य पुनरुद्धारे तथा कोलकातायाः दुर्गापूजायाः अद्भुतकलां विश्वस्य समक्षं प्रदर्शयितुं क्रियमाणासु योजनासु पूर्णतया सहयोगं करिष्यति। तेन बलपूर्वकं प्रतिपादितं यत् कस्यचित् समाजस्य प्रगतिः केवलं मार्गाणां दीर्घतया निवेशितधनराशिना वा न मापनीया, अपि तु तस्य समाजस्य परिचयं प्रददतीनां मूल्यवतीनां संस्कृतिनां संस्थानां च संरक्षणमपि करणीयम्।

Hindusthan Samachar / Divya Ranjan