Enter your Email Address to subscribe to our newsletters

कोलकाता, 24 सितंबरमासः (हि.स.)।पश्चिमबङ्गाले अस्मिन् वर्षे अन्तं यावत् शतशः मदरसाः बन्दाः भवितुं सम्भावना वर्तते। शिक्षाविभागस्य सूत्रानुसारं विद्यार्थिनां अत्यल्पसंख्या पर्याप्तमूलभूतसुविधानां च अभावात् २५० सरकारीमान्यताप्राप्ताः निजीयमदरसाः आगामीदिसम्बरमासपर्यन्तं बन्दाः कर्तुं शक्यन्ते। अपरञ्च प्रायः शतं मदरसेभ्यः कारणदर्शनोचना निर्गता अस्ति। तेभ्यः पूजापर्वणः पूर्वं सूचनायाः उत्तरं दातव्यम् अस्ति। एतेषु अपि पञ्चाशदधिकेषु मदरसेषु बन्दीकरणस्य कार्यवाही भवितुं शक्नोति। एवं दिसम्बरमासपर्यन्तं प्रायः त्रिशतमदरसानां बन्दीकरणस्य सम्भावना व्यक्ता क्रियते।
नवान्नसूत्रानुसारं राज्ये खारिजीमदरसेभ्यः अपि पूर्ववत् सञ्चालनस्य अनुमतिः न प्रदास्यते। अपरञ्च सरकारीमान्यताप्राप्तेषु निजीयमदरेषु यदि आवश्यकाः मूलभूतसुविधाः न सन्ति अथवा नियमानुसारं सञ्चालनं न भवति, तर्हि तेषामपि बन्दीकरणं भविष्यति। कथ्यते यत् राज्ये अद्यावधि २५२ मदरसाः बन्दाः कृताः सन्ति।
एतेषु मदरसेषु कूचबिहारः, जलपाईगुडी, अलीपुरद्वारः, उत्तरदिनाजपुरः, दक्षिणदिनाजपुरः, मालदहः, मुर्शिदाबादः, नदिया, उत्तरचतुर्विंशतिपरगणा, दक्षिणचतुर्विंशतिपरगणा, हावडा, हुगली, पूर्वबर्धमानः तथा पश्चिमबर्धमानः इत्येतेषु जनपदेषु स्थिताः मदरसाः सम्मिलिताः सन्ति। अपरञ्च प्रायः शतं मदरसेभ्यः अपि विभिन्नगम्भीरानियमिततानाम् आरोपेषु कारणदर्शनोचना प्रदत्ता अस्ति। आरोपः अस्ति यत् एतेषु केचन मदरसाः निर्धारितनियमानुसारं न सञ्चालिताः आसन्।
राज्यस्य अल्पसंख्यकविकासमन्त्री क्षुदिरामटुडू इत्यस्य अनुसारं दिसम्बरमासे शिक्षाविभागस्य शैक्षणिकसत्रं समाप्तं भवति। तदनन्तरं राज्यसर्वकारः एतेषां मदरसानां बन्दीकरणस्य सूचना निर्गमयिष्यति। तेन उक्तं यत् अनेकेषु मदरसेषु नाममात्राः एव विद्यार्थी सन्ति। अतः यदि शैक्षणिकसत्रस्य मध्ये तेषां बन्दीकरणं क्रियते, तर्हि विद्यार्थिषु अध्ययनत्यागिनां संख्या वर्धितुं शक्नोति। एतस्मात् कारणात् कार्यवाही दिसम्बरमासपर्यन्तं स्थगिता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani