मुख्यमन्त्रिणा शुभेन्दुअधिकरिणा सह निवेशविषये चर्चायाः पूर्वं गौतम-अडानी कालीघाटं गत्वा पूजाम् अकरोत्
कोलकाता, 24 सितंबरमासः (हि.स.)। अडानीसमूहस्य अध्यक्षः गौतम-अडानी पश्चिमबङ्गस्य महत्त्वपूर्णदौरे वर्तते। बुधवासरे रात्रौ कोलकातानगरं प्राप्तस्य तस्य गुरुवासरे प्रातः स्वपत्न्या सह प्रसिद्धे कालीघाटमन्दिरे पूजाऽर्चनां कृत्वा दिवसस्य प्रारम्भः कृतः। अ
कालीघाट मंदिर में पूजा अर्चना करते गौतम अडानी


कोलकाता, 24 सितंबरमासः (हि.स.)। अडानीसमूहस्य अध्यक्षः गौतम-अडानी पश्चिमबङ्गस्य महत्त्वपूर्णदौरे वर्तते। बुधवासरे रात्रौ कोलकातानगरं प्राप्तस्य तस्य गुरुवासरे प्रातः स्वपत्न्या सह प्रसिद्धे कालीघाटमन्दिरे पूजाऽर्चनां कृत्वा दिवसस्य प्रारम्भः कृतः। अस्य पर्यायस्य मुख्यकेन्द्रं राज्ये बृहत्प्रमाणेन औद्योगिकनिवेशः मन्यते, यस्य विषये अद्यैव मुख्यमन्त्रिणा शुभेन्द्वधिकरिणा सह तस्य महत्त्वपूर्णं उपवेशनं भविष्यति।

कालीघाटमन्दिरे दर्शनं कृत्वा गौतम-अडानी न्यूटाउननगरे प्रस्तावितस्य द्विसहस्रशय्यायुक्तस्य ‘अडानी आरोग्यमन्दिर’ इति चिकित्सालयस्य शिलान्याससमारोहे भागं गृह्णीयात्। अस्मिन् कार्यक्रमे मुख्यमन्त्री शुभेन्द्वधिकारी अपि प्रमुखतया उपस्थितः भविष्यति। ततः अलीपुरस्थे ‘सौजन्य’ भवने मुख्यमन्त्रिणः अडानीसमूहस्य प्रतिनिधीनां च मध्ये निवेशविषये उच्चस्तरीयम् उपवेशनं भविष्यति।

प्रशासनिकसूत्राणाम् अनुसारम्, अस्मिन् उपवेशने राज्यस्य ऐतिहासिकस्य प्रशासनिकभवनस्य ‘राइटर्स बिल्डिङ्ग’ इत्यस्य जीर्णोद्धारविषये राज्यसर्वकारस्य अडानीसमूहस्य च मध्ये महत्त्वपूर्णस्य समझौतापत्रस्य हस्ताक्षरं भवितुं प्रबलसम्भावना अस्ति। अस्य महत्त्वपूर्णस्य उपवेशनस्य तत्क्षणानन्तरं मुख्यमन्त्री शुभेन्द्वधिकारी राष्ट्रियस्वयंसेवकसङ्घस्य समन्वयोपवेशने भागं ग्रहीतुं देहलीनगरं प्रति प्रस्थास्यति।

राज्ये सत्तापरिवर्तनानन्तरं वर्तमानसर्वकारः निरन्तरं नवीनानाम् उद्योगानां रोजगारसृजनस्य च प्रवर्धनाय प्रयत्नशीलः अस्ति। अस्याः योजनायाः अन्तर्गतं बहवः प्रमुखाः उद्योगपतयः निवेशाय अग्रे आगच्छन्ति। अस्यामेव श्रृङ्खलायाम् अडानीसमूहः स्वास्थ्यक्षेत्रस्य अतिरिक्तं राज्यस्य अन्येषु बहुषु महत्त्वपूर्णेषु क्षेत्रेष्वपि निवेशस्य योजनां करोति।

व्यापारिकनिवेशस्य अतिरिक्तम् अडानीसमूहः बङ्गालस्य महोत्सवेषु सर्वप्रमुखया दुर्गापूजया सहापि सम्बद्धः भविष्यति। समूहद्वारा राज्यस्य अष्टानां श्रेष्ठानां सामुदायिकदुर्गापूजासमितीनां चयनं कृत्वा प्रत्येकस्यै पञ्चविंशतिलक्षरूप्यकाणां सम्मानराशिः प्रदास्यते।

तदनन्तरं विश्वस्य सर्वेषु भागेषु दुर्गापूजायाः कलां अद्भुतां परम्परां च प्रदर्शयितुं देशविदेशयोः प्रसिद्धानां व्यक्तीनां कृते अक्टोबरमासस्य दशम्यां, एकादश्यां, द्वादश्यां च विशेषपूजाभ्रमणकार्यक्रमस्य आयोजनमपि करिष्यते।

Hindusthan Samachar / Dheeraj Maithani