जटिलापराधानाम् अनावरणे जनसेवायां च उत्कृष्टकार्यं कृतवन्तः ३२ आरक्षककर्मचारिणः सम्मानिताः
हरिद्वारम्, २४ सेप्टेम्बरमासः (हि.स.)। वरिष्ठ-आरक्षकाधीक्षकः नवनीतसिंहस्य अध्यक्षतायां गुरुवासरे रोशनाबादस्थिते आरक्षककार्यालयस्य सभागारे सैनिक-सम्मेलनम् आयोजितम्। सम्मेलने जनपदस्य विभिन्नेभ्यः थाना इत्येतेभ्यः, शाखाभ्यः, कार्यालयेभ्यः आरक्षकपङ्क्त
सम्मानित हुए पुलिसकर्मी


हरिद्वारम्, २४ सेप्टेम्बरमासः (हि.स.)। वरिष्ठ-आरक्षकाधीक्षकः नवनीतसिंहस्य अध्यक्षतायां गुरुवासरे रोशनाबादस्थिते आरक्षककार्यालयस्य सभागारे सैनिक-सम्मेलनम् आयोजितम्। सम्मेलने जनपदस्य विभिन्नेभ्यः थाना इत्येतेभ्यः, शाखाभ्यः, कार्यालयेभ्यः आरक्षकपङ्क्तेः च आगतेभ्यः आरक्षककर्मिभ्यः वरिष्ठ-आरक्षका-धीक्षकेण तेषां कुशलक्षेमः पृष्टः तथा समस्याः ज्ञाताः। स्वस्तरे सम्बद्धाः समस्याः तत्रैव समाधानं नीताः, शेषसमस्यानां शीघ्रसमाधानाय सम्बद्धेभ्यः अधिकारिभ्यः निर्देशाः दत्ताः।

सम्मेलनस्य अन्ते वरिष्ठ-आरक्षकाधीक्षकेण कर्तव्यपालनकाले उत्तमकार्यदक्षतां प्रदर्शितवन्तः, जटिला-पराधानाम् अनावरणे महत्त्वपूर्णां भूमिकां निर्वहन्तः तथा जनहिते प्रशंसनीयकार्यं कृतवन्तः ३२ आरक्षक-कर्मचारिणः अगस्तमासस्य ‘पुलिस-मैन-ऑफ-द-मन्थ’ इति सम्मानाय सम्मानिताः। वरिष्ठ-आरक्षकाधीक्षकेण उक्तं यत् एतेषां कार्मिणां कार्यम् अन्येषां आरक्षक-कर्मचारिणाम् अपि प्रेरणादायकम् अस्ति।

दृश्यनिर्माणे आरक्षकदूरसञ्चारविभागः प्रथमः, अग्निशमनसेवा द्वितीया

जन्माष्टमीपर्वणः अवसरे रोशनाबादस्य आरक्षकपङ्क्तौ विभिन्नैः थानैः शाखाभिश्च निर्मितासु प्रदर्शिनीषु उत्कृष्टप्रदर्शनं कृतवन्तः प्रभारीजनाः अपि पुरस्कृताः। प्रतियोगितायां आरक्षकदूरसञ्चारविभागेन प्रथमस्थानं, अग्निशमनसेवया द्वितीय-स्थानं तथा सिडकुल-थाना इत्यनेन तृतीयस्थानं प्राप्तम्। विजेतृभ्यः दलभ्यः वरिष्ठ-आरक्षकाधीक्षकस्य पक्षतः नगदधनराशिं प्रदाय सम्मानितम्।

एते ३२ कार्मिकाः ‘मैन-ऑफ-द-मन्थ’ इति सम्मानेन सम्मानिताः

कलियरमेलाकेन्द्रतः मुख्य-आरक्षिणः जयप्रकाशः, मुख्य-आरक्षी सञ्जयरामः, आरक्षकः सचिनः तथा होमगार्ड् शेखरः सैनिः; नगरकोतवालीतः आरक्षी आशीषः अधिकारी; श्यामपुरतः सहायक-उपनिरीक्षकः रविन्द्रगौडः, मुख्य-आरक्षी विकासभट्टः तथा आरक्षी सुशीलचौहानः; कनखलतः सहायक-उपनिरीक्षकः मुन्ना-नेगी, आरक्षी करमसिंहः तथा आरक्षी नवीनक्षेत्री; ज्वालापुरतः आरक्षी अर्जुन-चौहानः; बहादराबादतः आरक्षी पङ्कज-बिष्टः; रानीपुरतः महिला-उपनिरीक्षिका सन्दीपाभण्डारी; सिडकुलतः मुख्य-आरक्षी सञ्जयः; गङ्गनहरतः मुख्य-आरक्षी दिनेशगुप्तः; मङ्गलौरतः उपनिरीक्षकः जगमोहनरमोला तथा सहायक-उपनिरीक्षकः श्यामबाबू; कलियरतः मुख्य-आरक्षी भादूरामवर्मा; लक्सरतः वरिष्ठोपनिरीक्षकः नितिन-चौहानः; सीआईयू-रुड़कीतः आरक्षी राहुलनेगी; सीपीयू-हरिद्वारतः उपनिरीक्षकः विनोदचौहानः; यातायात-हरिद्वारतः सहायक-उपनिरीक्षकः वीरेन्द्रपाण्डेयः तथा होमगार्ड् मदनपालः; महिला-सुरक्षा-सहायताकेन्द्रतः महिला होमगार्ड् सोनिया; जल-आरक्षकतः उपनिरीक्षकः इखलाखः तथा मुख्य-आरक्षी विशालसिंहः; मायापुर-अग्निशमनकेन्द्रतः अग्नि-शामकः मातबरसिंहः; स्थायी-अभिसूचना-एककतः उपनिरीक्षकः फरमानअली; आरक्षकदूरसञ्चारविभागतः मुख्य-आरक्षी आशीषकुमारः; तथा आरक्षकपङ्क्तितः उपनिरीक्षकः भारतसिंहरावतः एवं मुख्य-आरक्षी नरेशः सम्मानिताः।

Hindusthan Samachar / Divya Ranjan