Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 03 सितंबरमासः (हि.स.)।
केन्द्रीयगृहमन्त्री अमितशाहः गुरुवासरे साकेतनगरे मैक्स स्मार्ट सुपर स्पेशलिटी चिकित्सालयस्य उद्घाटनं कृतवान्। तेन अस्मिन् अवसरे अत्र वृक्षारोपणमपि कृतम्। अस्मिन् अवसरे दिल्लीप्रदेशस्य मुख्यमन्त्री रेखा गुप्ता, भारतीयजनतादलस्य सांसदः रामवीरसिंहबिधूडी, दिल्लीप्रदेशस्य स्वास्थ्य मन्त्री डॉ. पंकजकुमारसिंहः, विधायकः सतीशउपाध्यायः, गजेन्द्रयादवः तथा मैक्स चिकित्सालयस्य अध्यक्षः प्रबन्धनिदेशकश्च अभयसॉयः उपस्थिताः आसन्।
मुख्यमन्त्री सामाजिकमाध्यमे ‘एक्स’ इत्यत्र प्रकाशयन्ती उक्तवती यत् एषा नूतना स्वास्थ्यसुविधा दिल्लीप्रदेशस्य चिकित्साव्यवस्थां अधिकं सुदृढां करिष्यति तथा नागरिकेभ्यः उन्नतगुणवत्तायुक्तानां स्वास्थ्यसेवानां प्राप्तिं वर्धयिष्यति।
सांसदः रामवीरसिंहबिधूडी उक्तवान् यत् केन्द्रीयगृहमन्त्री अमितशाहः अद्य मम लोकसभाक्षेत्रे मैक्स स्मार्ट सुपर स्पेशलिटी चिकित्सालयस्य उद्घाटनं कृत्वा दिल्लीवासिभ्यः विश्वस्तरीयां आधुनिकां च स्वास्थ्यसेवासुविधां महतीं प्रदत्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani