Enter your Email Address to subscribe to our newsletters

अररियानगरम्, ०३ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रीनरेन्द्रमोदिनः सार्वजनिक-जीवने सेवायाः, समर्पणस्य राष्ट्रनिर्माणस्य च पञ्चविंशतिवर्षाणि पूर्णानि इत्यस्य उपलक्ष्ये भारतीय-जनतापक्षेण देश-व्यापिरूपेण आयोजितस्य ‘सेवा-सङ्कल्पाभियानस्य’ अन्तर्गतं गुरुवासरे अररियाजनपदस्य भाजपा-कार्यालये जनपदस्तरीयायाः कार्यशालायाः आयोजनं कृतम्। इदं अभियानं सेप्टेम्बरमासस्य सप्तदश-दिनाङ्कात् अक्टोबरमासस्य सप्तदश-दिनाङ्कपर्यन्तं सम्पूर्णे देशे विभिन्नैः सेवाकार्यैः जनकल्याण-कारीकार्यक्रमैश्च आयोजयिष्यते।
कार्यशालायाः अध्यक्षता भाजपायाः जनपदाध्यक्षेण आदित्यनारायणझा इत्यनेन कृता, कार्यक्रमस्य सञ्चालनं च जनपदभाजपामहासचिवेन कृष्णकुमार-सेनानी इत्यनेन कृतम्। कार्यक्रमे मुख्यातिथिरूपेण भाजपायाः पूर्व-प्रदेशाध्यक्षः बिहारसर्वकारस्य भूमि-राजस्वमन्त्री च डॉ. दिलीपकुमार-जायसवालः तथा नवनियुक्तः विधानपरि-षद्सदस्यः भाजपायाः प्रदेशोपाध्यक्षश्च अनिलकुमारठाकुरः उपस्थितौ आस्ताम्।
कार्यशालां सम्बोधयन् डॉ. दिलीपकुमारजायसवालः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः पञ्चविंशति-वर्षीयं सार्वजनिकजीवनं सेवा-समर्पण-सुशासन-राष्ट्रहितेषु प्रतिबद्धतायाश्च प्रेरणादायकम् उदाहरणम् अस्ति। सेवा-सङ्कल्पाभियानस्य माध्यमेन भाजपा-कार्यकर्तारः समाजस्य अन्तिमसोपाने स्थितं जनमपि प्राप्य सेवायाः जनकल्याणस्य च कार्याणि गतिं प्रदास्यन्ति। सः कार्यकर्तॄन् अभियानं व्यापकजनसहभागितायाः स्वरूपं प्रदातुम् आहूतवान्।
जनपदाध्यक्षः आदित्यनारायणझा अवदत् यत् पक्षस्य निर्देशानुसारं सम्पूर्णमेकं मासं यावत् जनपदस्य विभिन्नेषु मण्डलेषु बूथस्तरपर्यन्तं विविधाः सेवाधारिताः कार्यक्रमाः आयोजयिष्यन्ते। अभियानस्य सफलतायै सर्वे कार्यकर्तारः पूर्णनिष्ठया अनुशासनेन समर्पणभावेन च कार्ये संलग्नाः भवेयुः इति सः आह्वानं कृतवान्।
कार्यक्रमे नवनियुक्तेन विधानपरिष-द्सदस्येन प्रदेशोपाध्यक्षेन च अनिल-कुमारठाकुरेण अपि कार्यकर्तॄणां मार्गदर्शनं कृतम्। सः सेवासङ्क-ल्पाभियानं सङ्गठनस्य सुदृढीकरणाय समाजमध्ये भाजपायाः सेवाभावनां च अधिकं सशक्तं कर्तुं महत्त्वपूर्णम् अभियानम् इति अवदत्।
Hindusthan Samachar / Divya Ranjan