जल प्रबंधने भाजपादलस्य कार्यशाला, 14 राज्यानां 25 मंत्रिणः सम्मिलिताः
नव दिल्ली, 03 सितंबरमासः (हि.स.) भारतीयजनतादलेन आयोजितायां जलप्रबन्धनकार्यशालायां चतुर्दशराज्यानि स्वकीयान्-स्वकीयान् अनुभवाः परस्परं साझीकृतवन्ति तथा जलस्य उत्तमसंरक्षणस्य प्रबन्धनस्य च उपायान् अधीतवन्ति। भाजपायाः वरिष्ठनेता विनयसहस्रबुद्धेः सञ
विनय सहस्त्र बुद्धि फाइल फोटो


नव दिल्ली, 03 सितंबरमासः (हि.स.)

भारतीयजनतादलेन आयोजितायां जलप्रबन्धनकार्यशालायां चतुर्दशराज्यानि स्वकीयान्-स्वकीयान् अनुभवाः परस्परं साझीकृतवन्ति तथा जलस्य उत्तमसंरक्षणस्य प्रबन्धनस्य च उपायान् अधीतवन्ति।

भाजपायाः वरिष्ठनेता विनयसहस्रबुद्धेः सञ्चारमाध्यमेभ्यः अस्याः कार्यशालायाः विषये सूचनां ददन् उक्तवान् यत् एषा कार्यशाला जलेन सम्बद्धानां विभिन्नविभागानां कार्यप्रणालीं अधिकप्रभावशालिनीं कर्तुं तथा राज्येषु जलप्रबन्धनं सुदृढं कर्तुं उद्देशेन आयोजितास्ति।

विनयसहस्रबुद्धेः अनुसारं, अस्मात् पूर्वं केन्द्रसर्वकारस्य पक्षतः सर्वेषां राज्यानाां जलशक्तिमन्त्रिणां सम्मेलनम् आयोजितम् आसीत्। तस्य समापनानन्तरं भाजपायाः एषा कार्यशाला प्रारब्धा। कार्यशालायाः उद्घाटनं दलस्य राष्ट्रियाध्यक्षः नितिननवीनः कृतवान्। तदनन्तरम् अद्य विभिन्नेषु विषयेषु सत्राणि आयोजितानि।

तेन उक्तं यत् कार्यशालायां चतुर्दशराज्यानां पञ्चविंशतिः जलशक्तिमन्त्रिणः भागं गृहीतवन्तः। तेषु सिञ्चनस्य, ग्रामीणपेयजलस्य, पेयजलस्य स्वच्छतायाश्च तथा जनस्वास्थ्य-अभियांत्रिकीसम्बद्धानां विभागानां दायित्वं वहन्तः मन्त्रिणः सम्मिलिताः सन्ति।

कार्यशालायाः प्रथमसत्रे ‘इफेक्टिव मिनिस्ट्रियल एस्टैब्लिशमेंट’ अर्थात् मन्त्रालयस्य कार्यप्रणालीं अधिकप्रभावशालिनीं कर्तुं उपायानां विषये चर्चा अभवत्। तदनन्तरं विशेषज्ञैः ‘इण्डिया वाटर स्टोरी’ इत्यस्य अन्तर्गतं भारते जलसंसाधनानां वर्तमानस्थितेः तैः सम्बद्धानां च आव्हानानां विषये सूचनाः प्रदत्ताः।

सहस्रबुद्धेः उक्तं यत् कार्यशालायां संगठनस्य सर्वकारस्य च मध्ये उत्तमसमन्वयस्य सम्बन्धस्य च विषये अपि एकं सत्रम् आयोजितम्। अन्येषु सत्रेषु जलप्रबन्धनेन सम्बद्धेषु अन्येषु महत्त्वपूर्णविषयेषु अपि चर्चा भविष्यति।

तेन उक्तं यत् अस्याः कार्यशालायाः उद्देश्यम् राज्येषु जलेन सम्बद्धानां विभागानां कार्यप्रणालीं सुदृढां कर्तुं, अनुभवविनिमयं कर्तुं तथा जलप्रबन्धनस्य विषये प्रभाविशीलां रणनीतिं निर्मातुं साहाय्यं कर्तुम् अस्ति। कार्यशालायाः समाप्तेः अनन्तरं सर्वे मन्त्रिणः स्वस्वराज्येषु नूतनान् अनुभवांश्च शासने क्रियान्वितुं प्रयतिष्यन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani