श्रीकृष्ण जन्माष्टम्यां चतुर्थे सितंबरमासीये छत्तीसगढ़े वर्तिष्यते शुष्कदिवसः
-प्रदेशे समग्रे मदिरापणाः, पथिकाश्रयाःक्लबस्थलानि पिधास्यन्ते रायपुरम् 03 सितंबरमासः (हि.स.)। छत्तीसगढसर्वकारेण श्रीकृष्णजन्माष्टम्याः अवसरे २०२६ तमस्य वर्षस्य सितम्बरमासस्य चतुर्थे दिने, शुक्रवासरे, सम्पूर्णे प्रदेशे ‘शुष्कदिवसः’ घोषितः। वाणिज
शुष्क दिवस फाइल फाेटाे


-प्रदेशे समग्रे मदिरापणाः, पथिकाश्रयाःक्लबस्थलानि पिधास्यन्ते

रायपुरम् 03 सितंबरमासः (हि.स.)।

छत्तीसगढसर्वकारेण श्रीकृष्णजन्माष्टम्याः अवसरे २०२६ तमस्य वर्षस्य सितम्बरमासस्य चतुर्थे दिने, शुक्रवासरे, सम्पूर्णे प्रदेशे ‘शुष्कदिवसः’ घोषितः। वाणिज्यिककरस्य आबकारीविभागेन अस्मिन् विषये अद्य आदेशः निर्गतः तथा सर्वेषां सम्बन्धिताधिकारिणां कृते निर्देशः प्रदत्तः यत् आदेशस्य कठोरतया पालनं सुनिश्चितं क्रियताम्।

निर्गतादेशानुसारं शुष्कदिवसस्य अवधौ प्रदेशस्य सर्वाः देशीय-मदिरायाः विदेशीय-मदिरायाश्च फुटकरविक्रय-दुकानाः बन्दाः स्थास्यन्ति। तदतिरिक्तं भोजनालय-मदिरालयाः, होटल-मदिरालयाः, क्लबाः, आहाताः तथा मदिराविक्रयं मदिराप्रदानं वा कुर्वन्तः सर्वप्रकारकाः अनुज्ञप्तियुक्ताः प्रतिष्ठानाः अपि बन्दाः स्थास्यन्ति। भाङ्गस्य भाङ्गघोटस्य च फुटकरविक्रय-दुकानानि अपि अस्मिन् दिने बन्दानि स्थास्यन्ति।

राज्यशासनेन स्पष्टं कृतं यत् शुष्कदिवसस्य अवधौ कस्मै अपि होटलाय, भोजनालयाय, क्लबाय, अन्यस्मै प्रतिष्ठानाय वा व्यक्तये मदिरायाः विक्रयणस्य प्रापणस्य वा अनुमतिः न भविष्यति। गैरमालिकीय-क्लबेषु, भोजनालयेषु तथा ताराङ्कित-होटलेषु अपि अयं प्रतिबन्धः समानरूपेण प्रवर्तिष्यते।

शुष्कदिवसस्य अवधौ मदिरायाः व्यक्तिगत-सञ्चयनस्य तथा अनुज्ञप्तिरहितेषु परिसरेषु मदिरासञ्चयनस्य च कठोरतया निषेधः भविष्यति। नियमस्य उल्लङ्घनं यदि दृश्यते तर्हि मदिरा जब्त्वा नियमानुसारं कार्यवाही विधास्यते।

अवैधमदिरायाः परिवहनस्य, सङ्ग्रहणस्य तथा विक्रयस्य निवारणाय जिलाकार्यालयैः सह मण्डलस्तरीयैः राज्यस्तरीयैश्च उड्डयनदलैः प्रभाविकार्यवाही कर्तुं निर्देशाः प्रदत्ताः सन्ति। अस्य कृते जाँचदलानि गठितानि भविष्यन्ति, येषां द्वारा अवैधमदिरायाः सम्भावित-सङ्ग्रहणस्थलानां संदिग्धवाहनानां च परीक्षणं क्रियते। दोषिणां विरुद्धं प्रकरणानि पञ्जीकृत्य नियमानुसारं कार्यवाही विधास्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani