मुख्यमंत्री तेहखंड एटीएस इत्यस्य कृतम् उद्घाटनं, 50 ईवी बसयानेभ्यः दिल्ली–रेवाड़ी ई-बस सेवायै च दर्शितो ध्वजः
नव दिल्ली, 03 सितंबरमासः (हि.स.)। दिल्लीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता गुरुवासरे तेहखण्ड-स्वचालित-परीक्षणकेन्द्रस्य अर्थात् एटीएसस्य उद्घाटनं कृतवती। तया सह पञ्चाशत् नवीनविद्युत्बसयानि, दिल्ली-रेवाड़ी-अन्तर्राज्यीय-विद्युद्बससेवा तथा हसनपुर-गा
दिल्ली की मुख्यमंत्री रेखा गुप्ता गुरुवार को  50 ईवी बसों को झड़ी दिखाती हुई


मुख्यमंत्री रेखा गुप्ता गुरुवार को गाजीपुर डिपो में दो नए सार्वजनिक ईवी चार्जिंग स्टेशन की शुरूआत करते


नव दिल्ली, 03 सितंबरमासः (हि.स.)।

दिल्लीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता गुरुवासरे तेहखण्ड-स्वचालित-परीक्षणकेन्द्रस्य अर्थात् एटीएसस्य उद्घाटनं कृतवती। तया सह पञ्चाशत् नवीनविद्युत्बसयानि, दिल्ली-रेवाड़ी-अन्तर्राज्यीय-विद्युद्बससेवा तथा हसनपुर-गाजीपुर-स्थानकयोः द्वे नवीनं सार्वजनिकविद्युत्वाहनप्रभारणकेन्द्रे च दिल्लीवासिभ्यः समर्पितानि।

मुख्यमन्त्रिणा उक्तं यत् अस्य एटीएसस्य शिलान्यासः नवम्बरमासे एव कृतः आसीत्, अद्य तस्य उद्घाटनं कृतम्। अल्पेषु एव मासेषु अस्य महत्त्वपूर्णस्य परियोजनायाः पूर्णतां कर्तुं परिवहनविभागस्य सम्पूर्णदलाय तथा अस्याः परियोजनायाः सम्बद्धेभ्यः सर्वेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च साधुवादः प्रदत्तः।

मुख्यमन्त्रिण्या उक्तं यत् दिल्लीप्रदेशस्य सार्वजनिकपरिवहनव्यवस्थां सुगमां सुरक्षितां सुविधाजनकां च कर्तुम् एव अस्माकं सङ्कल्पः अस्ति। अस्मिन् अवसरे भारतीयजनतापक्षस्य सांसदः रामवीरसिंहबिधूड़ी, दिल्लीप्रदेशस्य परिवहनमन्त्री डॉ. पङ्कजकुमारसिंहश्च उपस्थितौ आस्ताम्।

परिवहनमन्त्री डॉ. पङ्कजकुमारसिंहः अवदत् यत् अद्य मुख्यमन्त्रिण्या तेहखण्डस्थानके स्वचालितपरीक्षणकेन्द्रस्य, पञ्चाशत् नवीनविद्युत्बसयानां, द्वयोः सार्वजनिकविद्युत्वाहनप्रभारणकेन्द्रयोः, हसनपुर-गाजीपुरस्थानकयोः, तथा दिल्ली-रेवाड़ी-अन्तर्राज्यीयबससेवायाः च शुभारम्भः कृतः।

तेन उक्तं यत् एताभिः नवीनसुविधाभिः सार्वजनिकपरिवहनव्यवस्थां अधिकाधुनिकां, सुरक्षितां, सुगमां पर्यावरणानुकूलां च कर्तुं महत्त्वपूर्णं योगदानं भविष्यति। विद्युत्बसयानां संचालनात् प्रदूषणस्य न्यूनतया सह दिल्लीवासिभ्यः उत्तमाः स्वच्छाश्च परिवहनसुविधाः उपलब्धाः भविष्यन्ति।

परिवहनमन्त्री डॉ. पङ्कजकुमारसिंहः उक्तवान् यत् एटीएसस्य माध्यमेन प्रतिवर्षं प्रायः द्विसप्ततिसहस्रवाहनानां योग्यता-परीक्षणं भविष्यति। अनेन वाहनयोग्यतापरीक्षणप्रक्रियायां पारदर्शिता, कार्यक्षमता, प्रौद्योगिकीगतशुद्धता च वर्धिष्यते तथा च मार्गसुरक्षाव्यवस्था अधिकं सुदृढा कर्तुं शक्यते।

अपरतः विद्युत्वाहनप्रभारणकेन्द्राणां विस्तारात् दिल्लीप्रदेशे विद्युत्वाहनपरिवहनस्य आधारभूतसंरचना अधिकं सुदृढा भविष्यति। तेन उक्तं यत् दिल्ली-रेवाड़ी-अन्तर्राज्यीयबससेवायाः शुभारम्भेन दिल्ली-हरियाणयोः मध्ये आवागमनं कुर्वद्भ्यः यात्रिभ्यः उत्तमस्य सुविधाजनकस्य च सार्वजनिकपरिवहनस्य लाभः प्राप्स्यते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani