चित्रकूटघटनायां मुख्यमंत्री योगी आदित्यनाथः अगृह्णात् संज्ञानं, 24 घंटासु क्षतिपूर्तिं दातुं निर्देशः
चित्रकूटम्, 03 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य चित्रकूटजनपदे सम्पन्नस्य दर्दनाक-दुर्घटनायाः मुख्यमन्त्रिणा योगी आदित्यनाथेन संज्ञानं गृहीत्वा मृतकानां शोकसन्तप्तपरिजनेभ्यः गभीरा संवेदना व्यक्ता। मुख्यमन्त्रिणा गुरुवासरे अधिकारिभ्यः तत्कालं घटन
चित्रकूट हादसे पर मुख्यमंत्री योगी आदित्यनाथ ने लिया संज्ञान, 24 घंटे में मुआवजा देने के निर्देश


चित्रकूटम्, 03 सितंबरमासः (हि.स.)।

उत्तरप्रदेशस्य चित्रकूटजनपदे सम्पन्नस्य दर्दनाक-दुर्घटनायाः मुख्यमन्त्रिणा योगी आदित्यनाथेन संज्ञानं गृहीत्वा मृतकानां शोकसन्तप्तपरिजनेभ्यः गभीरा संवेदना व्यक्ता। मुख्यमन्त्रिणा गुरुवासरे अधिकारिभ्यः तत्कालं घटनास्थलं प्राप्य राहत-उद्धारकार्याणि तीव्रतया सञ्चालयितुं तथा घायितानां समुचितचिकित्सां सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः।

मुख्यमन्त्रिणा अधिकारिभ्यः उक्तं यत् मृतकानां परिजनैः सह संवादं कृत्वा तेभ्यः सर्वसम्भवसहायता प्रदीयताम्। दुर्घटनायां जाता जनहानिः आर्थिकक्षतिश्च तत्कालं मूल्याङ्कयित्वा चतुर्विंशतिघण्टाभ्यन्तरे नियमानुसारं क्षतिपूर्तिः प्रदातुं निर्देशाः अपि प्रदत्ताः।

मुख्यमन्त्री योगी घायितानां शीघ्रस्वास्थ्यलाभस्य कामनां कुर्वन् अधिकारिभ्यः चिकित्सायां कस्यापि प्रकारस्य उपेक्षां न कर्तुं तथा पीडितपरिवारेभ्यः सर्वसम्भवसहायतां प्रदातुं निर्देशान् दत्तवान्।

उल्लेखनीयं यत् चित्रकूटे अतिवृष्टेः कारणेन गृहस्य भित्तिः भग्ना अभवत्, येन पिता तस्य बालकाः च मृताः।

---------------

Hindusthan Samachar / Dheeraj Maithani