इतिहासस्य पृष्ठेषु ०४ सितम्बरमासः - प्रथमवारं टाइटैनिक-जहाज इत्यस्य भग्नावशेषस्य चित्राणि प्रकाशमागतानि
विश्वस्य सर्वाधिकचर्चितेषु नौकायानेषु अन्यतमस्य टाइटैनिक-जहाज इत्यस्य निमज्जनात् प्रायः त्रिसप्ततिवर्षाणाम् अनन्तरं ०४ सितम्बरमासे १९८५ तमे वर्षे तस्य भग्नावशेषस्य चित्राणि प्रथमवारं विश्वस्य सम्मुखम् आगतानि। टाइटैनिक-जहाजः इतिहासस्य सर्वाधिकचर्चित
सांकेतिक।


विश्वस्य सर्वाधिकचर्चितेषु नौकायानेषु अन्यतमस्य टाइटैनिक-जहाज इत्यस्य निमज्जनात् प्रायः त्रिसप्ततिवर्षाणाम् अनन्तरं ०४ सितम्बरमासे १९८५ तमे वर्षे तस्य भग्नावशेषस्य चित्राणि प्रथमवारं विश्वस्य सम्मुखम् आगतानि। टाइटैनिक-जहाजः इतिहासस्य सर्वाधिकचर्चितानां समुद्रीदुर्घटनानाम् अन्यतमस्य प्रतीकम् अस्ति।

१० अप्रैल १९१२ तमे वर्षे ब्रिटेनदेशस्य साउथहैम्पटन-बन्दरगाहात् टाइटैनिक-जहाजः स्वप्रथमयात्रायै न्यूयॉर्कनगरं प्रति प्रस्थितवान्। तस्मिन् समये अयं वाष्पशक्त्या सञ्चालितः विश्वस्य विशालतमः यात्रिक-जहाजः आसीत्। प्रायः द्विसहस्रद्विशतं यात्रिकान् चालकदलस्य सदस्यांश्च नीत्वा प्रस्थितम् एतत् पोतम् अत्यन्तं सुरक्षितम् इति मन्यते स्म।

१४ अप्रैलस्य रात्रौ उत्तर-अटलाण्टिकमहासागरे टाइटैनिक-पोतः हिमशिलया सह सङ्घट्टितः। सङ्घट्टनानन्तरं पोते शीघ्रं जलं प्रवेष्टुम् आरब्धम्, कतिपयघण्टानन्तरं च तत् समुद्रे निमग्नम् अभवत्। अस्यां दुर्घटनायां पञ्चदशशताधिकानां जनानां मृत्युः अभवत्।

दशकेभ्यः टाइटैनिक-पोतस्य भग्नाव-शेषस्य अन्वेषणं सफलं नाभवत्। अन्ततः अमेरिकीसमुद्रवैज्ञानिकस्य रॉबर्टबलार्ड इत्यस्य नेतृत्वे अभियानं सञ्चालितम् तथा च सितम्बर १९८५ तमे वर्षे समुद्रस्य प्रायः त्रयोदशसहस्रपादमितायां गभीरतायां टाइटैनिक-पोतस्य भग्नावशेषः प्राप्तः। पोतः द्वयोः विशालयोः भागयोः भग्नः प्राप्तः।

महत्त्वपूर्णाः घटनाः

१६६५ - मुगलानां छत्रपति-शिवाजीमहाराजस्य च मध्ये राजा जयसिंह-सन्धौ हस्ताक्षरं कृतम्।१७८१ - स्पेनदेशीयजनैः लॉस एञ्जेल्सनगरस्य स्थापना कृता।१८८८ - गान्धीमहोदयः इङ्ग्लैण्डदेशं प्रति समुद्रयात्राम् आरब्धवान्।१९४४ - द्वितीयविश्वयुद्धकाले ब्रिटिशसैनिकाः बेल्जियमदेशस्य एण्टवर्पनगरं प्रविष्टवन्तः।१९४६ - भारते अन्तरिमसर्वकारस्य गठनं कृतम्।१९६७ - महाराष्ट्रस्य कोयना-बन्धः ६.५ तीव्रतायुक्तस्य भूकम्पस्य प्रभावक्षेत्रे आगतः, अस्मिन् द्विशताधिकानां जनानां मृत्युः अभवत्।१९६९ - उत्तर-वियतनामदेशस्य राष्ट्रपतिः राष्ट्रपिता च हो ची मिन्हा इत्यस्य निधनम् अभवत्।१९८५ - त्रिसप्ततिवर्षाणाम् अनन्तरं समुद्रे निमग्नस्य टाइटैनिक-पोतस्य चित्राणि प्रकाशमागतानि। टाइटैनिक-दुर्घटनायां पोतस्थाः प्रायः पञ्चदशशतजनाः मृताः।१९८८ - जॉर्जईस्टमैन इत्यस्मै रोल-फिल्म-कैमरा इत्यस्य पेटेण्ट-अधिकारः प्राप्तः।१९९८ - अमेरिकादेशस्य राष्ट्रपतिः बिलक्लिण्टनः आयरलैण्डदेशस्य डब्लिननगरे मोनिका लेविन्स्की इत्यनया सह सम्बन्धस्थापनं महती त्रुटिः आसीदिति स्वीकृतवान्।१९९८ - डरबननगरे द्वादशमं गुटनिरपेक्ष-शिखरसम्मेलनं सम्पन्नम्।१९९८ - गूगल इत्यस्य औपचारिकः शुभारम्भः अभवत्। लैरीपेजः तथा सर्गेईब्रिन इत्येताभ्यां स्टैनफोर्ड-विश्वविद्यालये पी.एच.डी. अध्ययनकाले अस्य विकासः कृतः आसीत्।१९९९ - पूर्वी-तिमोरदेशे सम्पन्ने जनमतसंग्रहे ७८.५ प्रतिशतं जनाः इण्डोनेशियादेशात् स्वातन्त्र्यस्य पक्षे स्वमतं प्रकटितवन्तः।२००० - श्रीलङ्कादेशस्य उत्तरस्थ-जाफना-प्रदेशस्य बाह्यसीमासु श्रीलङ्कासेनायाः मुक्ति-चीता इत्यस्य दलस्य च मध्ये सम्पन्ने सङ्घर्षे ३१६ जनाः मृताः।२००१ - श्रीलङ्कादेशः मुशर्रफतः सैन्यसहायतां याचितुं निर्णयं कृतवान्।२००५ - लोकतन्त्रसमर्थनार्थं प्रदर्शनं कुर्वन् नेपालदेशस्य पूर्वप्रधानमन्त्री गिरिजाप्रसाद-कोइराला गृहीतः।२००६ - ऑस्ट्रेलियादेशस्य प्रसिद्धस्य दूरदर्शनव्यक्तित्वस्य पर्यावरणविदः च स्टीव-इरविनस्य स्टिङ्गरे इति समुद्रमीनस्य आघातात् निधनम् अभवत्।२००७ - ईरानदेशस्य पूर्वराष्ट्रपतिः अकबरहाशमी रफसंजानी इत्ययं ईरानदेशस्य सर्वोच्चधार्मिकसंस्थायाः प्रमुखः निर्वाचितः।२००८ - मायावती-सर्वकारेण उत्तरप्रदेशसंगठितापराधविरोधि-न्यायविधेयकं-२००७ तत्क्षणप्रभावेण प्रत्याहर्तुं निर्णयः कृतः।२००८ - केन्द्रीय-मन्त्रिमण्डलेन सप्तसु राज्येषु निर्वाचनक्षेत्राणां पुनर्निर्धारणसम्बन्धे परिसीमनायोगस्य अनुशंसासु संशोधनप्रस्तावस्य अनुमोदनं कृतम्।२००९ - गुजरात-उच्चन्यायालयेन जसवन्तसिंहस्य मुहम्मद अली जिन्ना इत्यस्मिन् विषये लिखितायाः पुस्तकस्य गुजरातप्रदेशे स्थापितं प्रतिबन्धं निरस्तम्।२००९ - कोयला-निर्माणी एस.सी.सी.एल. इत्यस्मै मिनीरत्न-निर्माणीरूपेण सम्मानस्वायत्तता प्रदत्ता।२०१२ - पैरालम्पिक-क्रीडासु गिरीशहोसंगारा नागराजेगौडा भारताय प्रथमं पदकं प्राप्तवान्।२०२० - नेहरूपर्वतारोहणसंस्थानस्य त्रिभिः सदस्यैः भारत-चीनसीमायां नेलाङ्गघाट्यां षड्दिनान्तराले ‘इनरलाइन’ क्षेत्रे त्रयाणां शिखराणाम् आरोहणं कृत्वा महती उपलब्धिः प्राप्ता।

जन्म

१८२५ - दादाभाई नौरोजी - भारतस्य प्रसिद्धः राजनीतिज्ञः आसीत्।१८८० - भूपेन्द्रनाथदत्तः - भारतस्य स्वतन्त्रतासङ्ग्रामस्य प्रसिद्धः क्रान्तिकारी, लेखकः समाजशास्त्री च आसीत्।१८९५ - सियारामशरणगुप्तः - हिन्दीभाषायाः प्रसिद्धः साहित्यकारः आसीत्।१९०४ - प्रेमेन्द्रमित्रः - बङ्गालीभाषायाः कविः, लेखकः चलचित्रनिर्देशकः च आसीत्।१९०६ - नन्ददुलारे वाजपेयी - हिन्दीभाषायाः प्रसिद्धः पत्रकारः, समीक्षकः, साहित्यकारः, आलोचकः सम्पादकः च आसीत्।१९०९ - ब्रजकुमारनेहरू - भारतस्य प्रथमप्रधानमन्त्रिणः जवाहरलालनेहरू इत्यस्य पितृव्यपुत्रस्य बृजलालस्य रामेश्वरीनेहरू इत्यस्याश्च पुत्रः आसीत्।१९२४ - के. वी. रघुनाथः रेड्डी - भारतीयः राजनीतिज्ञः आसीत्।१९४१ - सुशीलकुमारशिन्दे - भारतीयः राजनीतिज्ञः।१९५२ - ऋषिकपूरः - भारतीयः चलचित्राभिनेता, चलचित्रनिर्माता निर्देशकः च आसीत्।१९६२ - किरणमोरे - भारतीयः क्रिकेटक्रीडकः अस्ति।१९७१ - लान्सक्लूजनरः - दक्षिणाफ्रिकादेशस्य क्रिकेटक्रीडकः।१९८२ - गौरवः गोगोई - भारतीयराष्ट्रीयकांग्रेसस्य असमराज्यात् भारतीयः राजनीतिज्ञः अस्ति।

निधनम्

१९१२ - मोहनलालविष्णुपाण्डेयः - भारतेंदुकालस्य प्रमुखसाहित्यकारेषु अन्यतमः आसीत्।१९७५ - बलदेवप्रसादमिश्रः - हिन्दीभाषायाः प्रसिद्धः साहित्यकारः, न्यायविद् लोकसेवकः च आसीत्।१९८४ - भोलापासवानशास्त्री - भारतीयः राजनीतिज्ञः बिहारराज्यस्य अष्टमः मुख्यमन्त्री च आसीत्। सः त्रिवारं बिहारराज्यस्य मुख्यमन्त्री अभवत्।१९९७ - धर्मवीरभारती - भारतस्य प्रसिद्धः साहित्यकारः आसीत्।२००६ - सत्येन्द्रनारायणसिंहः - भारतीयः राजनीतिज्ञः बिहारराज्यस्य भूतपूर्वमुख्यमन्त्री च आसीत्।२००६ - स्टीव इरविन - ऑस्ट्रेलियादेशस्य प्रसिद्धः दूरदर्शनव्यक्तित्वः पर्यावरणविद् च।२०१५ - विल्फ्रेडः डिसूजा - भारतीयराष्ट्रीयकांग्रेसस्य राजनीतिज्ञः गोवाराज्यस्य भूतपूर्वमुख्यमन्त्री च आसीत्।

महत्त्वपूर्णावसरः

- राष्ट्रीयपोषाहारदिवसः (सप्ताहः)।

Hindusthan Samachar / Divya Ranjan