Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०३ सेप्टेम्बरमासः (हि.स.)। दिल्ली-विश्वविद्यालयस्य कुलपतिना प्रो. योगेशसिंहेन गुरुवासरे वनस्पति-विज्ञानविभागे देशस्य प्रथमस्य ‘कार्बन-उद्यानस्य’ उद्घाटनं कृतम्। अस्मिन् अवसरे तेन कार्बन-उद्याने कल्पवृक्षस्य पादपमपि रोपितम्। अस्मिन् कार्बन-उद्याने विविधप्रजातीनां तादृशाः पादपाः रोपिताः सन्ति, ये पर्यावरणे महत्त्वपूर्णं योगदानं ददति।
अस्मिन् अवसरे सम्बोधयन् कुलपतिः प्रो. योगेशसिंहः अवदत् यत् उद्यानस्य क्षेत्रफलं लघु अस्ति, किन्तु तस्य पृष्ठतः या भावना अस्ति, सा अत्यन्तम् उत्तमा अस्ति।
प्रो. योगेशसिंहः अवदत् यत् सम्पूर्णे विश्वे प्रतिवर्षं वायुप्रदूषणस्य कारणेन सप्तलक्षाधिकाः न, अपितु सप्त-कोट्यधिकाः जनाः मृत्युमुपयान्ति। भारते प्रायः सप्तदशलक्षं जनाः स्वप्राणान् त्यजन्ति। सः अवदत् यत् पर्यावरणस्य समस्या जनानां असन्तुलितैः कार्यैः उत्पन्ना अस्ति। तस्याः समाधानं केवलं प्रौद्योगिक्या न कर्तुं शक्यते, अपितु तदर्थम् अन्येषां उपायानां स्वीकरणम् आवश्यकम्। सर्वैः स्थायिसमाधानस्य प्रयासः करणीयः इति सः अवदत्।
योगेशसिंहः अवदत् यत् दिल्ली देशस्य राजधानी अस्ति। अत्र प्रदूषणस्य समस्या निरन्तरं वर्धमाना अस्ति। यदि सम्यक् पदानि न स्वीक्रियन्ते तर्हि एषा नगरी प्रदूषणस्य राजधानी भविष्यति। सः दिल्ली-विश्वविद्यालयस्य विभिन्नेषु विभागेषु महाविद्यालयेषु च कार्बन-उद्यानानां स्थापनायाः अपि आह्वानं कृतवान्।
कुलपतिः अवदत् यत् भारते पाश्चात्त्यदेशानां अन्धानुकरणं क्रियते, येन पर्यावरणसमस्या अधिका भवति। विकासयोजनानां निर्माणं कुर्वद्भिः देशस्य पर्यावरणीयपरिस्थितेः आवश्यकतानां च ध्यानं दातव्यम् इति सः अवदत्।
डीयू-वनस्पतिविज्ञानविभागस्य प्रमुखः तथा कार्बन-उद्यानस्य संस्थापकः प्रो. दीनबन्धुसाहुः भारतस्य प्रथमस्य कार्बन-उद्यानस्य विषये संक्षिप्तां सूचनां प्रदत्तवान्। सः अवदत् यत् कार्बन-उद्यानं वर्धमानस्य वायुप्रदूषणस्य मृदाप्रदूषणस्य च निवारणाय एकः समाधानोपायः अस्ति। सः सूचितवान् यत् द्विसहस्रवर्गफुटपरिमिते लघुक्षेत्रे विकसितमिदम् उद्यानम् अपि जनसङ्कुलस्य नगरीयक्षेत्रस्य मध्ये एकः लघु-जैवविविधतापार्कः अस्ति। अस्मिन् उद्याने पादपानां पञ्चाशत् प्रजातयः सन्ति, येषु औषधीयपादपाः, गुल्माः वृक्षाश्च अन्तर्भवन्ति।
अस्मिन् अवसरे नैकेषां विभागानां प्रमुखैः सह विभिन्नमहाविद्यालयानां प्राचार्याः, अन्ये गणमान्याः जनाः बहुसङ्ख्याकाः छात्राश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan