प्रधानमन्त्री मोदी गौराङ्गव्यासस्य निधनं प्रति दुःखं व्यक्तवान्
नवदिल्ली, ०३ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे गुजरातीसङ्गीतकारस्य गौराङ्गव्यासस्य निधनात् गहनं दुःखं व्यक्तवान्। प्रधानमन्त्री मोदी ‘एक्स’ इति माध्यमे लिखितवान्— “गुजरातीसङ्गीतजगतः सङ्गीतकारस्य गौराङ्गव्यासस्य निधनात् वयं गहन
प्रधानमंत्री मोदी संगीतकार गौरंग व्यास के साथ की (फाइल फोटो)


नवदिल्ली, ०३ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे गुजरातीसङ्गीतकारस्य गौराङ्गव्यासस्य निधनात् गहनं दुःखं व्यक्तवान्। प्रधानमन्त्री मोदी ‘एक्स’ इति माध्यमे लिखितवान्— “गुजरातीसङ्गीतजगतः सङ्गीतकारस्य गौराङ्गव्यासस्य निधनात् वयं गहनं दुःखमनुभवामः। स्वपितुः अविनाशव्यासस्य समृद्धां सङ्गीत-परम्पराम् अग्रे प्रवर्धयन् सः गुजरातीसङ्गीतक्षेत्रे स्वस्य विशिष्टं परिचयं निर्मितवान् आसीत्। तस्य निधनात् गुजरातप्रदेशः एकं प्रतिभाशालिनं कलाकारं न्यूनवान्। गुजरातीसङ्गीते तस्य अमूल्यं योगदानं सर्वदा स्मर्यते। दिवङ्गतात्मनः शान्तये प्रार्थना तथा तस्य शोकसन्तप्तपरिवारस्य बहुसंख्यकानां तस्य प्रशंसकानां प्रति च संवेदना... ॐ शान्तिः...!!”

उल्लेखनीयं यत् गुजरातीचलच्चित्रजगतः सुप्रसिद्धस्य सङ्गीतकारस्य गीतकारस्य च दिवङ्गतस्य अविनाशव्यासस्य पुत्रस्य गौराङ्गव्यासस्य बुधवासरे देररात्रौ अहमदाबादनगरे निधनम् अभवत्। तस्य निधनस्य वार्ता प्रकाशमागते सति गुजरातीचलच्चित्रसङ्गीतजगति शोकस्य तरङ्गः प्रवृत्तः। सः दीर्घकालात् गुजरातीसङ्गीतजगति सक्रियः आसीत् तथा च शताधिकेषु गुजरातीचलच्चित्रेषु सङ्गीतं प्रदत्तवान्।

Hindusthan Samachar / Divya Ranjan