Enter your Email Address to subscribe to our newsletters

०३ सेप्टेम्बरमासः (हि.स.)। कृषकेभ्यः कृषिकार्यार्थं पर्याप्तां विश्वसनीयां च सिञ्चनसुविधां प्रदातुं योगी-सर्वकारः निरन्तरं प्रभाविणः पदक्षेपान् स्वीकरोति। प्रदेशसर्वकारस्य प्राथमिकता केवलं सिञ्चनसंसाधनानां विस्तारः नास्ति, अपितु पूर्वमेव उपलब्धव्यवस्थां आधुनिकां, सुचारुरूपेण कार्यरतां अधिकोपयोगिनीं च कर्तुमपि अस्ति। अस्मिन्नेव क्रमे सिञ्चन-जलसंसाधन-विभागस्य पक्षतः राजकीय-नलकूपानाम् आधुनिकीकरणे विशेषं बलं दीयते। अनेन कृषकेभ्यः समये जलस्य उपलब्धतायाः सह कृषेः व्यय: समस्या च च न्यूनीकर्तुं साहाय्यं भवति।
विभागीयानाम् विवरणानाम् अनुसारं वर्ष २०२२-२३ तः २०२५-२६ पर्यन्तं प्रदेशे २,४९३ नवीनराजकीय-नलकूपानां निर्माणं, १,७६९ विफल-नलकूपानां पुनर्निर्माणं तथा ६,६०० राजकीय-नलकूपानाम् आधुनिकीकरणं सम्पन्नम् अभवत्। सर्वकारस्य एष: प्रयत्न: ग्रामीणक्षेत्रेषु सिञ्चनव्यवस्थां सुदृढां कर्तुं तथा क्षेत्रेभ्यः जलस्य उपलब्धतां अधिकविश्वसनीयां कर्तुं महत्त्वपूर्णा सिद्धा भवति।
एतेषां कार्याणां परिणामस्वरूप ३.७७ लक्ष-हेक्टेयर्-परिमितायाः सिञ्चनक्षमतायाः सृजनं पुनर्स्थापनं वा अभवत्, यदा ३.१५ लक्ष-कृषकपरिवाराः प्रत्यक्षरूपेण लाभान्विताः अभवन्। अर्थात् नलकूपानाम् आधुनिकीकरणस्य प्रभावः केवलं सर्वकारीयसम्पत्तिषु एव सीमितः न अभवत्, अपितु तस्य प्रत्यक्षलाभः क्षेत्रेभ्यः कृषकेभ्यश्च प्राप्तः। अपि च पम्पनहराणाम् आधुनिकीकरणेन नवीनपम्पनहराणां निर्माणेन च ०.६२ लक्ष-हेक्टेयर्-परिमितायाः सिञ्चनक्षमतायाः सृजनं पुनर्स्थापनं वा अभवत्।
५.५९ लक्ष-कृषकपरिवाराणां लाभाय लक्ष्यं निर्धारितम्
योगी-सर्वकारेण अग्रिमकालेऽपि सिञ्चनव्यवस्थां अधिकं सुदृढां कर्तुं सज्जता कृता अस्ति। वर्ष २०२६-२७ मध्ये १,७५० विफलराजकीय-नलकूपानां पुनर्निर्माणस्य तथा ८,७१७ नलकूपानाम् आधुनिकीकरणस्य सहितं विविधाः परियोजनाः सञ्चाल्यमानाः सन्ति। एतासां परियोजनानां सम्पन्नतायां ४.२१ लक्ष-हेक्टेयर-परिमितायाः अतिरिक्तसिञ्चन-क्षमतायाः सृजनं पुनर्स्थापनं वा तथा ५.५९ लक्ष-कृषकपरिवाराणां लाभान्विती-करणस्य लक्ष्यं निर्धारितम् अस्ति।
Hindusthan Samachar / Divya Ranjan