Enter your Email Address to subscribe to our newsletters

— ब्रिटिशशासनकाले रजतसिंहासने प्रतिष्ठिताः राधाकृष्णयोः मूर्तयः।
— मन्दिरे जन्मोत्सवस्य रात्रितः षष्ठीपर्यन्तं भविष्यन्ति मनोहराः कार्यक्रमाः।
हमीरपुरम्, ०३ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य हमीरपुरनगरे शताब्दीभ्यः प्राचीनस्य राधाकृष्णमन्दिरस्य जन्मोत्सवस्य सज्जता अद्य आरब्धा अस्ति। एतत् मन्दिरं ब्रिटिशशासनकाले निर्मितम् आसीत्। अत्र रजतसिंहासने अष्टधातु-निर्मिताः अमूल्याः नयनाभिरामाः राधाकृष्णयोः मूर्तयः विराजन्ते। ब्रिटिश-शासनकाले आङ्ग्ल-उपायुक्त: स्व-परिवारेण सह श्रीकृष्णस्य जन्मोत्सवे पूजार्चनाय अत्र आगच्छति स्म। अत्र नगरस्य अर्धाधिकजनसंख्या मन्दिरं समागत्य श्रीकृष्णस्य जन्मोत्सवं सामूहिकरूपेण आयोजयति।
हमीरपुरनगरं राजा हम्मीरदेवेन स्थापितम् आसीत्। हम्मीरदेवः राजस्थानस्य अल्वरप्रदेशात् पलाय्य अत्र आगतवान् आसीत्। तेन सुरक्षादृष्ट्या नगरस्य चतुर्दिक्षु दुर्गस्य निर्माणं कारितम् आसीत्। एतत् नगरं यमुनया बेतवा-नद्या च सर्वतः परिवेष्टितम् अस्ति। हम्मीरदेवस्य शासनस्य समाप्त्यनन्तरम् अत्र मराठाशासकानां शासनम् अभवत्। दीर्घकालपर्यन्तं प्रवृत्ते मराठाशासने देवीदेवतानां मन्दिराणां निर्माणं कारितम् आसीत्। तस्मिन् काले निर्मितानि मन्दिराणि अद्यापि हमीरपुरनगरे विद्यमानानि सन्ति।
आङ्ग्लशासनकाले हमीरपुरनगरस्य मिश्राना-मोहल्ला इत्यत्र राधाकृष्णयोः भव्यं मन्दिरं निर्मितम् आसीत्। विस्तीर्णे क्षेत्रे निर्मितम् एतत् मन्दिरम् अस्ति। ब्रिटिशशासनकाले शंकरलालः ओमरः मध्यप्रदेशात् अत्र आगतवान् आसीत्। तस्य मातामहेन अस्य मन्दिरस्य निर्माणं कारितम् आसीत्। शंकरलाल-ओमरस्य पुत्रः अजय-ओमरः सम्प्रति अस्य मन्दिरस्य प्रमुखः अस्ति। सः मन्दिरस्य निर्माणात् आरभ्य तस्य जीर्णोद्धार-संरक्षणकार्यं पर्यन्तं कार्यं कुर्वन् अस्ति।
अजय-ओमरः अवदत् यत् ब्रिटिश-शासनकाले आङ्ग्ल-उपायुक्त: अधिका-रिभिश्च स्वपरिवारैः सह अस्मिन् मन्दिरे दर्शनार्थम् आगच्छन्ति स्म। मन्दिरस्य सम्मुखस्थे प्रांगणे बहुदशकपर्यन्तं रामलीलायाः मञ्चनमपि भवति स्म, किन्तु अधुना सा अतीतस्य भागः एव अवशिष्टा अस्ति।
चूर्णपाषाणेन विस्तीर्णे क्षेत्रे मन्दिरस्य निर्माणम्
शंकरलाल-ओमरस्य पुत्रः अजय-ओमरः अवदत् यत् संवत् १८९० तमे वर्षे आङ्ग्लशासनकाले एव एतत् मन्दिरं निर्मितम् आसीत्। तस्मिन् समये सीमेण्ट-लौहदण्डैः विना एव मन्दिराणां निर्माणं भवति स्म। अतः सम्पूर्णं मन्दिरं चूनाकङ्क्रीट इत्यनेन पाषाणैश्च निर्मितम् अस्ति। शताब्दीनां व्यतीतेऽपि एतत् मन्दिरम् अद्यापि सुरक्षितम् अस्ति। मन्दिरस्य उपरि चूर्णेन पाषाणेन च कलशोऽपि निर्मितः अस्ति। मन्दिरपरिसरे अन्येषां देवीदेवतानां रजतनिर्मिताः मूर्तयः अपि विराजन्ते।
ब्रिटिशशासनकाले रजतसिंहासने प्रतिष्ठिताः राधाकृष्णयोः मूर्तयः
ब्रिटिशशासनकाले हमीरपुरनगरस्य मध्यभागे यमुनानद्याः समीपे राधाकृष्णमन्दिरस्य निर्माणं कारितम् आसीत्। मन्दिरस्य देखरेखं कुर्वन् अजय-ओमरः अवदत् यत् मन्दिरस्य निर्माणानन्तरं रजतसिंहासनं निर्माय तस्मिन् राधाकृष्णयोः मूर्तयः प्रतिष्ठापिताः। एताः मूर्तयः अष्टधातुनिर्मिताः अमूल्याश्च सन्ति। तेन उक्तं यत् ब्रिटिशशासनकाले मूर्तयः अष्टधातुना एव निर्मीयन्ते स्म। मूर्तिनां रजतसिंहासने प्रतिष्ठापनस्य परम्परा तस्मिन् समये प्रचलिता आसीत्।
मन्दिरे जन्मोत्सवरात्रितः षष्ठीपर्यन्तं भविष्यन्ति मनोहराः कार्यक्रमाः
अस्मिन् मन्दिरे बहुदशकपूर्वं सेवानिवृत्तः नायब-तहसीलदारः राजनारायण-पराशरः पुजारी आसीत्। तदनन्तरम् अधुना शशिबाला-गोस्वामिनी तथा सुधा-पराशरा च दीर्घकालात् मन्दिरे उभयोः प्रहरयोः पूजां कुर्वत्यौ स्तः। मन्दिरस्य प्रमुखः अजय-ओमरः अवदत् यत् मन्दिरस्य जीर्णोद्धार-सौन्दर्यवर्धनाय विविधाणि निर्माणकार्याणि कारितानि सन्ति। लक्षाधिकरूप्यकाणां व्ययं कृत्वा मन्दिरं सुशोभितं कृतम् अस्ति। श्रीकृष्णस्य प्राकट्योत्सवस्य रात्रौ मङ्गलारत्यनन्तरं षष्ठीपर्यन्तं मन्दिरे विविधाः कार्यक्रमाः आयोजयिष्यन्ते।
Hindusthan Samachar / Divya Ranjan