(मुख्यसमाचारः) रक्षाक्षेत्रे सहकार्येण सह भारत-बेल्जियमदेशौ पञ्चवर्षेषु व्यापारं द्विगुणितं करिष्यतः
नव दिल्ली, 03 सितंबरमासः (हि.स.)। भारतं बेल्जियमश्च आगामीषु पञ्चवर्षेषु स्वीयव्यापारं द्विगुणितं कर्तुं सहमतौ अभवताम्। उभयोः देशयोः नेतॄणां मध्ये गुरुवासरे सम्पन्नायाः वार्तायाः अनन्तरं दशसु विषयेषु सहमतिः अभवत्। तेषु रक्षाक्षेत्रे सहकार्यं सर्व
प्रधानमंत्री के साथ बेल्जियम के प्रधानमंत्री हैदराबाद हाउस में


नव दिल्ली, 03 सितंबरमासः (हि.स.)।

भारतं बेल्जियमश्च आगामीषु पञ्चवर्षेषु स्वीयव्यापारं द्विगुणितं कर्तुं सहमतौ अभवताम्। उभयोः देशयोः नेतॄणां मध्ये गुरुवासरे सम्पन्नायाः वार्तायाः अनन्तरं दशसु विषयेषु सहमतिः अभवत्। तेषु रक्षाक्षेत्रे सहकार्यं सर्वाधिकं महत्त्वपूर्णम् आसीत्। यूरोपीयरक्षाआपूर्तिशृङ्खलायाः अन्तर्गतं अत्याधुनिकप्रौद्योगिकीविशेषज्ञतां च प्राप्तुं तथा देशे रक्षोत्पादनं, प्रौद्योगिकीविकासं, सहनिर्माणं च प्रोत्साहयितुं रक्षानवाचारक्षेत्रे निवेशं कर्तुं च उभयोः देशयोः मध्ये अद्य सम्झौता अभवत्।

विदेशमन्त्रालयस्य अनुसारं बेल्जियम-सुरक्षारक्षोद्योगसङ्घस्य (बीडीएसआई) भारतीयरक्षानिर्मातृसोसायटी (एसआईडीएम) इत्यनयोः मध्ये तथा निकटभविष्ये ब्रुसेल्स्नगरे स्थिते भारतीयदूतावासे आवासीरक्षासंलग्नकस्य नियुक्तिविषये च सम्झौता अभवत्। देशे निवेशस्य गतिं वर्धयितुं एकं तन्त्रं निर्मास्यते। अनेन भारतं बेल्जियमदेशात् बृहद्प्रमाणेन निवेशं प्राप्तुं शक्नोति। भारतं बेल्जियमश्च स्वव्यापाररूपरेखां संस्थागतं कर्तुं सहमतौ अभवताम्। अनेन उभयोः देशयोः भारतीयानां कृते बेल्जियमस्य यूरोपीयव्यापारजगतः च सह मिलित्वा व्यापारावसरान् अन्वेष्टुं साहाय्यं भविष्यति।

भारतं बेल्जियमश्च काउन्सलर्-सम्वादं स्थापयिष्यतः, येन छात्राणां, व्यावसायिकानां, यात्रिकाणां व्यापारिणां च आवागमनं सुगमं भविष्यति। तदतिरिक्तं उभयोः देशयोः मध्ये नवीकरणीयशक्तिसम्बद्धः सम्झौतोऽपि अभवत्। सङ्गठितापराधानां, अन्तर्राष्ट्रीय-साइबर-अपराधानां तथा अन्येषां अपराधानां सम्बद्धेषु विषयेषु उभयोः देशयोः संस्थानयोः, अर्थात् केन्द्रीयान्वेषणसंस्थायाः (सीबीआई) बेल्जियमदेशस्य सङ्घीयपुलिसस्य च, मध्ये सहकार्यसम्बद्धः सम्झौतोऽभवत्। उभयोः देशयोः मध्ये राजनीतिज्ञानां प्रशिक्षणसम्बन्धेऽपि सम्झौता अभवत्।

बेल्जियमदेशस्य प्रधानमन्त्री बार्ट डी वेवरः द्वितीयतः चतुर्थसितम्बरपर्यन्तं भारतस्य आधिकारिकयात्रायाम् अस्ति। तेन सह बेल्जियमदेशस्य रक्षाविदेशव्यापारमन्त्री थियो फ्रैंकनः, अधिकारिणः व्यापारनेतारश्च समाविष्टं उच्चस्तरीयं प्रतिनिधिमण्डलमपि आगतम् अस्ति। फरवरीमासे द्विसहस्रपञ्चविंशतितमे वर्षे पदभारग्रहणानन्तरं प्रधानमन्त्री डी वेवरस्य एषा प्रथमः भारतयात्रा अस्ति।

प्रधानमन्त्री डी वेवरः स्वीययात्रायाः प्रारम्भं गुरुवासरे राजघाटे महात्मागान्धिने श्रद्धाञ्जलिं समर्प्य कृतवान्। तदनन्तरं प्रधानमन्त्री डी वेवरः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह प्रथमं सीमितस्वरूपेण ततः प्रतिनिधिमण्डलस्तरीयरूपेण द्विपक्षीयां वार्तां कृतवान्। तयोः चर्चायां उभयोः देशयोः सम्बन्धानां सर्वे पक्षाः समाविष्टाः आसन्। प्रधानमन्त्री नरेन्द्रमोदी प्रधानमन्त्री डी वेवरस्य तेन सह आगतस्य प्रतिनिधिमण्डलस्य च कृते मध्याह्नभोजनस्य आयोजनम् अकरोत्।

वार्तायाः अनन्तरं प्रकाशिते संयुक्तवक्तव्ये उक्तं यत् बेल्जियमेन संयुक्तराष्ट्रसुरक्षापरिषदि सुधारस्य विस्तारस्य च अनन्तरं स्थायी सदस्यतायै भारतस्य दावेदारीं प्रति समर्थनं पुनः व्यक्तम्। उभयोः देशयोः संयुक्तराष्ट्रसुरक्षापरिषदः अस्थायीसदस्यतायै परस्परस्य दावेदारीम् अपि समर्थिता। प्रधानमन्त्री नरेन्द्रमोदिना प्रमुखान् बेल्जियमविश्वविद्यालयान् शीर्षशैक्षणिकसंस्थानानि च भारतस्य नूतनशिक्षानीतेः अन्तर्गतं भारते परिसरस्यानि उद्घाटयितुं आमन्त्रितानि।

प्रधानमन्त्री बार्ट डी वेवरः सीमापार-आतङ्कवादसहितस्य आतङ्कवादस्य विरुद्धे सङ्घर्षे भारतस्य सह एकात्मतां व्यक्तवान्। तेन अप्रैलमासे द्विसहस्रपञ्चविंशतितमे वर्षे भारतस्य जम्मू-कश्मीरस्य पहलगामे निर्दोषनागरिकेषु कृते आतङ्कवादी आक्रमणस्य पुनः निन्दा कृता। परिवर्तमानानां आतङ्कवादीधमकीनां सामना कर्तुं द्विपक्षीयसहकार्यं वर्धयितुं आतङ्कवादविरोधिविषयेषु बेल्जियम-भारतसंयुक्तकार्यसमूहस्य स्थापनायाः सम्भावनां अन्वेष्टुम् अपि तेन इच्छा व्यक्ता।

उभौ नेतारौ द्विपक्षीय-आर्थिकसम्बन्धानां विकासस्य विविधीकरणस्य च विषये सन्तोषं व्यक्तवन्तौ। ताभ्यां अर्धचालकानां, रसायनानां, औषधनिर्माणस्य, रक्षोद्योगीयसहकार्यस्य, महत्त्वपूर्णखनिजानां शोधनस्य पुनर्चक्रीकरणस्य च, स्थायिउद्योगानां, परमाणुशक्तेः च क्षेत्रेषु वर्धमानस्य सहकार्यस्य स्वागतं कृतम्। अस्मिन् निजीक्षेत्रस्य हितधारकैः सह सहकार्यस्य नूतनानां अवसरानां अन्वेषणमपि सम्मिलितम् अस्ति।

उभौ नेतारौ बेल्जियमस्य सार्वभौमसम्पत्तिनिधेः, फेडरल होल्डिङ्ग एण्ड इन्वेस्टमेण्ट कम्पनी इत्यस्य, भारतस्य नेशनल इन्वेस्टमेण्ट एण्ड इन्फ्रास्ट्रक्चर फण्ड इत्यस्य च मध्ये प्रचलन्तीं वार्ताम् अपि स्वागतीकृतवन्तौ। ताभ्यां भारत-बेल्जियम-आर्थिकनिवेशमार्गिकायाः स्थापनायै साहाय्यं कर्तुं कृतस्य सहकार्यस्य औपचारिकीकरणस्य आशा व्यक्ता।

उभौ प्रधानमन्त्रिणौ यूक्रेनदेशे पश्चिम-एशियाक्षेत्रे च अभवद्भिः साम्प्रतिकैः घटनाक्रमैः सहितं प्रमुखान्तर्राष्ट्रीयघटनाक्रमान् प्रति विचाराणाम् आदानप्रदानमपि कृतवन्तौ। यूक्रेनदेशे युद्धस्य विषये उभयोः पक्षयोः संयुक्तराष्ट्रसंहितायाः अन्तर्राष्ट्रीयविधेः च सिद्धान्तानुसारं वार्तायाः कूटनीतेश्च माध्यमेन व्यापकां न्यायपूर्णां स्थायीं च शान्तिं प्राप्तुं प्रयत्नानां प्रति समर्थनं पुनरुक्तम्। पश्चिम-एशियाविषये ताभ्यां क्षेत्रे चिन्ताजनकानां साम्प्रतिकघटनाक्रमानां चर्चा कृता तथा आव्हानानां शान्तिपूर्णरूपेण समाधानाय वार्तायाः कूटनीतिकसम्बद्धतायाश्च महत्त्वे बलं दत्तम्। समुद्रीमार्गाणां सुरक्षा संरक्षणं च सुनिश्चित्य सुरक्षितं निर्बाधं च समुद्रीयानं स्थापयितुं महत्त्वे अपि ताभ्यां बलं दत्तम्।

प्रधानमन्त्री बार्ट डी वेवरः प्रधानमन्त्री नरेन्द्रमोदिं परस्परसुविधानुसारं समये बेल्जियमदेशस्य द्विपक्षीययात्रां कर्तुं निमन्त्रितवान्।

---------------