भारत-न्यूजीलैण्ड इत्यनयोः व्यापारसन्धि: अग्रिममासाद् आरभ्य प्रभावी भविष्यति
नवदिल्ली, ०३ सेप्टेम्बरमासः (हि.स.)। भारत-न्यूजीलैण्डयोः मध्ये मुक्तव्यापारसन्धि: अग्रिममासाद् आरभ्य प्रभावी भविष्यति। उभयोः देशयोः मध्ये मुक्तव्यापारसन्धि: २७ अप्रैल-दिने हस्ताक्षराणि कृतानि आसन्। अधिकारिकसूत्रैः गुरुवासरे प्रदत्तायां सूचनायां कथ
भारत-न्यूजीलैंड के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, ०३ सेप्टेम्बरमासः (हि.स.)। भारत-न्यूजीलैण्डयोः मध्ये मुक्तव्यापारसन्धि: अग्रिममासाद् आरभ्य प्रभावी भविष्यति। उभयोः देशयोः मध्ये मुक्तव्यापारसन्धि: २७ अप्रैल-दिने हस्ताक्षराणि कृतानि आसन्।

अधिकारिकसूत्रैः गुरुवासरे प्रदत्तायां सूचनायां कथितं यत् भारत-न्यूजीलैण्ड इत्येतयोः मध्ये एफटीए अग्रिममासाद् आरभ्य प्रभावी भविष्यति। अयं सन्धि: अग्रिममासे उभयोः देशयोः परस्परसहमत्या निर्धारिते दिवसे प्रभावे आगमिष्यति।

अधिकारी अवदत् यत् द्विपक्षीयव्यापारस्य प्रवर्धनाय तथा निवेशं प्रोत्साहितुं च उभाभ्यां देशाभ्यां २७ अप्रैल्-दिने वस्तूनां सेवाना च मुक्तव्यापारसन्धौ हस्ताक्षराणि कृतानि आसन्। एफटीए-अन्तर्गतं न्यूजीलैण्ड इत्यत्य भारतेन निर्यातितानां शतप्रतिशतं वस्तूनां शुल्कमुक्तप्रवेशः प्राप्स्यते।

भारत-न्यूजीलैण्डाभ्यां वस्तूनां सेवाना च परस्परव्यापारस्य वर्धनाय तथा निवेशस्य प्रोत्साहनाय २७ अप्रैल-दिने नवदिल्लीस्थिते भारतमण्डपे एफटीए-सन्धे: हस्ताक्षराणि कृतानि आसन्। केन्द्रीय-वाणिज्योद्योगमन्त्री पीयूषगोयलः तथा न्यूजीलैण्डस्य व्यापार-निवेशमन्त्री टॉड् मैक्ले च न्यूजीलैण्ड इत्यस्य प्रधानमन्त्री क्रिस्टोफर लक्सन् इत्यस्य उपस्थितौ अस्मिन् सन्धौ हस्ताक्षरं कृतवन्तौ।

एतत्पूर्वं न्यूजीलैण्डे सिरेमिक्-वस्तूनाम्, कार्पेट्-वस्तूनाम्, वाहनानां तेषां यन्त्रै: च सह भारतस्य प्रमुखेषु निर्यातितवस्तुषु अधिकतमं दशप्रतिशतम् पर्यन्तं शुल्कं प्रचलति स्म। न्यूजीलैण्ड इत्यनेन पञ्चदशवर्षेषु २० अरब-अमेरिकी-डॉलर-परिमितस्य प्रत्यक्षविदेशीनिवेशस्य प्रतिबद्धता अपि प्रकटिता अस्ति।

Hindusthan Samachar / Divya Ranjan