जयशङ्करः अद्यतः पञ्चसितम्बरपर्यन्तं यूक्रेन-पोलैण्डदेशयोः यात्रां करिष्यति
नवदिल्ली, ०३ सितम्बरमासः (हि.स.)। विदेशमन्त्री डॉ. एस. जयशङ्करः अद्यतःपञ्चसितम्बरपर्यन्तं यूक्रेन-पोलैण्डदेशयोः आधिकारिकयात्रायां भविष्यति। अस्यांयात्रायां सः उभयोः देशयोः स्वसमकक्षैः सह द्विपक्षीयसम्बन्धान् सुदृढीकरणविषयेक्षेत्रीयघटनाक्रमविषये च व
विदेश मंत्री डॉ. एस. जयशंकर।


नवदिल्ली, ०३ सितम्बरमासः (हि.स.)। विदेशमन्त्री डॉ. एस. जयशङ्करः अद्यतःपञ्चसितम्बरपर्यन्तं यूक्रेन-पोलैण्डदेशयोः आधिकारिकयात्रायां भविष्यति। अस्यांयात्रायां सः उभयोः देशयोः स्वसमकक्षैः सह द्विपक्षीयसम्बन्धान् सुदृढीकरणविषयेक्षेत्रीयघटनाक्रमविषये च विचारविमर्शं करिष्यति।

विदेशमन्त्रालयस्य अनुसारं यात्राकाले जयशङ्करः यूक्रेनदेशस्य विदेशमन्त्रिणा एण्ड्री सिबिहा तथा पोलैण्डदेशस्य उपप्रधानमन्त्रिणा विदेशमन्त्रिणा च राडोस्लाव सिकोरस्की इत्यनेन सह द्विपक्षीयविषयेषु विचारविमर्शं करिष्यति।

विदेशमन्त्री जयशङ्करस्य यात्राकाले भारतस्य उभाभ्यां देशाभ्यां सह द्विपक्षीय-सम्बन्धान् अग्रे प्रवर्धयितुं क्षेत्रीयघटना-क्रमसम्बद्धेषु विषयेषु सहभाग-हितसम्बद्धेषु विविधविषयेषु च विचाराणाम् आदानप्रदानं क्रियते।

Hindusthan Samachar / Divya Ranjan