धर्मगुरुः दलाईलामा द्विमासीय-लेहलद्दाख-प्रवासानन्तरं शुक्रवासरे धर्मशालां प्रत्यागमिष्यति
धर्मशाला, ०३ सेप्टेम्बरमासः (हि.स.)। तिब्बतीजनानां सर्वोच्चः धर्मगुरुः दलाईलामा लेहलद्दाखस्य द्विमासीय-प्रवासानन्तरं शुक्रवासरे स्वनिवासस्थानं धर्मशालां प्रत्यागमिष्यति। धर्मगुरोः प्रतीक्षायां तिब्बतीसमुदायः स्थानीयजनाश्च तस्य स्वागताय पूर्णतया सज्
धर्मगुरु दलाई लामा।


धर्मशाला, ०३ सेप्टेम्बरमासः (हि.स.)। तिब्बतीजनानां सर्वोच्चः धर्मगुरुः दलाईलामा लेहलद्दाखस्य द्विमासीय-प्रवासानन्तरं शुक्रवासरे स्वनिवासस्थानं धर्मशालां प्रत्यागमिष्यति। धर्मगुरोः प्रतीक्षायां तिब्बतीसमुदायः स्थानीयजनाश्च तस्य स्वागताय पूर्णतया सज्जाः सन्ति।

उल्लेखनीयं यत् तिब्बतीधर्मगुरुः दलाईलामा गत२८ जूनमासे धर्मशालातः लेह-प्रवासाय प्रस्थितवान् आसीत्। धर्मगुरुणा अस्मिन् अवधौ लेहलद्दाखे प्रवचनैः सह विभिन्नैः तिब्बतीसङ्गठनैः संस्थाभिश्च आयोजितेषु कार्यक्रमेष्वपि सहभागः कृतः। अस्मिन् अवधौ तिब्बतीसमुदायेन धर्मगुरोः दीर्घायुषः कामनया विशेषपूजायाः आयोजनमपि कृतम्।

दलाईलामस्य प्रत्यागमनस्य स्वागतस्य च सज्जतायै गुरुवासरे धर्मशालातः मैक्लोडगञ्जपर्यन्तं विभिन्नेषु स्थानेषु तोरणद्वाराणि स्थापितानि। विगतमास-द्वयादपि अधिककालं धर्मशालातः बहिः स्थितस्य दलाईलामा इत्यस्य प्रत्यागमनस्य तिब्बतीसमुदायेन स्थानीयजनैश्च आतुरतया प्रतीक्षा क्रियमाणा आसीत्। अधुना धर्मगुरोः प्रत्यागमनेन सह मैक्लोडगञ्जे आवागमनं अपि वर्धिष्यते।

Hindusthan Samachar / Divya Ranjan