Enter your Email Address to subscribe to our newsletters

जयपुरम्, 03 सितंबरमासः (हि.स.)।
श्रीकृष्णजन्माष्टम्याः उपलक्ष्ये जयपुरनगरे लड्डूगोपालस्य शृङ्गारस्य सज्जताः तीव्रतया प्रवर्तन्ते। जन्मोत्सवस्य अवसरे कान्हायै नवीनाम् आकर्षकां च पोशाकां धारयितुं विपण्यां रूपाङ्कितवस्त्राणां मागधी वर्धिता अस्ति। मन्दिरेषु सह गृहेषु विराजमानस्य लड्डूगोपालस्य कृते अपि श्रद्धालवः स्वेच्छानुसारं वर्णस्य, रूपस्य आकारस्य च पोशाकाः क्रीणन्ति। विशेषतः जरी-जरदोजीकार्येण, मौक्तिकैः, रत्नैः, काचखण्डैः शिलाखण्डैश्च अलङ्कृताः पोशाकाः श्रद्धालून् विशेषतया आकर्षयन्ति।
जन्माष्टम्यै सज्जीक्रियमाणासु पोशाकासु पारम्परिकशिल्पेन सह आधुनिकरूपाङ्कनस्यापि प्रयोगः क्रियते। पोशाकया सह मुकुटः, वंशी, कण्ठी, हारः अन्याः शृङ्गारसामग्र्यश्च उपलब्धाः सन्ति। लघुलड्डूगोपालात् आरभ्य बृहद्विग्रहपर्यन्तं विभिन्नाकाराणां कृते पृथक् पृथक् पोशाकाः सज्जीक्रियन्ते।
शिल्पिनः प्रथमं पोशाकायाः रूपाङ्कनं चित्राङ्कनं च कुर्वन्ति। तदनन्तरं वस्त्रे कशीदाकार्यं, जरी-जरदोजीकार्यं च सूक्ष्मतया क्रियते। बह्वीषु पोशाकासु मौक्तिकानां शिलाखण्डानां च अलङ्कारः हस्तेन क्रियते। रूपाङ्कनस्य शिल्पकौशलस्य च आधारेण एका पोशाका सज्जीकर्तुं बहुदिनानि व्यतीतानि भवन्ति।
जयपुरस्य विपण्यासु जन्माष्टम्याः पूर्वं पोशाकानां विविधाः श्रेणयः उपलब्धाः सन्ति। साधारणपोशाकात् आरभ्य भारीकशीदाकार्ययुक्तानां विशेषरूपाङ्कनयुक्तानां च पोशाकानां मूल्यं पृथक् पृथक् अस्ति। श्रद्धालवः स्वस्य आराध्यदेवस्य कृते स्वेच्छितवर्णस्य रूपाङ्कनस्य च पोशाकां चिन्वन्ति।
श्रीकृष्णजन्माष्टम्याः उपलक्ष्ये राजधानीजयपुरनगरे उत्सवस्य उल्लासः दृश्यते। मन्दिरेषु विशेषसज्जा पूर्णा अभवत्। बुधवासरात् प्रकाशव्यवस्थापि प्रारब्धा अस्ति। अपरतः गृहे गृहे लड्डूगोपालस्य जन्मोत्सवस्य सज्जताः उत्साहेन प्रवर्तन्ते। स्वस्य आराध्यबालगोपालं प्रेम्णा सज्जीकर्तुं तस्य सेवा कर्तुं च भक्तिभावः विपण्यास्वपि दृश्यते।
परकोटस्य प्रमुखविपण्येभ्यः आरभ्य मानसरोवरम्, मालवीयनगरम्, विद्याधरनगरम्, मुरलीपुरा इत्यादिषु नगरस्य विभिन्नेषु क्षेत्रेषु मुकुटस्य, वंश्याः, दोलानां शृङ्गारसामग्रीणां च आपणेषु श्रद्धालूनाम् आवागमनं वर्धितम् अस्ति।
कान्हायाः नखशिखशृङ्गाराय श्रद्धालवः त्रिविमीयमुकुटं, रत्नजटितचन्द्रिकां, कुण्डनकङ्कणानि, मयूरपिच्छं, नक्काशीयुक्तां वंशीम् अन्यां शृङ्गारसामग्रीं च क्रीणन्ति। कान्हां सज्जीकर्तुं विशेषं जलरोधकम् प्रसाधनं, चन्दनम्, केसरस्य उबटनम्, मुखप्रसाधनपुटकं सुगन्धितमत्तैलं च विपण्यां उपलब्धम् अस्ति।
आपणिकाः कथयन्ति यत् बालगोपालस्य शृङ्गारे अधुना पारम्परिकसामग्रीभिः सह आधुनिकरूपाङ्कनयुक्तसामग्रीणाम् अपि मागधी वर्धमाना अस्ति। कान्हां दोलयितुं मयूराकृतियुक्ताः दोलाः नक्काशीयुक्ताः शीशमकाष्ठस्य पालक्यश्च श्रद्धालून् आकर्षयन्ति। बहवः परिवाराः जन्माष्टम्याः दिने गृहे लड्डूगोपालस्य कृते विशेषदोलां सिंहासनं च सज्जीकर्तुं सिद्धतां कुर्वन्ति।
आपणिकानां अनुसारं शृङ्गारसामग्रीणां मूल्यं प्रायः पञ्चाशद्रूप्यकेभ्यः आरभ्य रूपाङ्कनस्य गुणवत्तायाश्च अनुसारं सहस्ररूप्यकाणि यावत् भवति। जन्माष्टम्याः कृते भगवान् श्रीकृष्णस्य लघुबृहत्योः मूर्त्योः मागधी अपि वर्धिता अस्ति। श्रद्धालवः गृहे स्थापनायै स्वेच्छानुसारं बजटानुसारं च कान्हायाः मूर्तयः क्रीणन्ति।
एतया सह भगवते अर्पणीयस्य भोगस्य सामग्र्याः क्रयणमपि प्रवर्तते। माखन-मिश्री, पञ्चामृतम्, धनियापञ्जरी, मेवाः अन्याः पूजनसामग्र्यश्च विपण्यां क्रीयन्ते। व्रतधारिणः श्रद्धालवः फलाहारस्य सामग्र्याम् अपि संग्रहं कुर्वन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani