Enter your Email Address to subscribe to our newsletters

भारतीयजनतापार्टी-दलस्य प्रदेशाध्यक्षः हेमन्तखण्डेलवालः प्रदेशवासिभ्यः श्री-कृष्णजन्माष्टम्याः शुभकामनाः प्रदत्तवान्
भोपालम्, ०३ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापार्टी-दलस्य प्रदेशाध्यक्षः हेमन्तखण्डेलवालः गुरुवासरे प्रदेश-वासिभ्यः पार्टीकार्यकर्तृभ्यश्च श्री-कृष्णजन्माष्टमीपर्वणः हार्दिक्य: शुभकामनाः प्रदत्तवान्। भाजपायाः प्रदेशाध्यक्षः खण्डेलवालः अवदत् यत् भगवान् श्रीकृष्णः पृथिव्यां मानवरूपेण जन्म गृहीत्वा मानवतायै सत्यस्य, धर्मस्य न्यायस्य च मार्गं प्रदर्शितवान्। भगवान् श्रीकृष्णः सत्यस्य न्यायस्य च कृते संघर्षं कर्तुं तथा अन्यायस्य पूर्णशक्त्या प्रतिकारं कर्तुं शिक्षां प्रदत्तवान्। भगवता श्रीकृष्णेन द्वापरयुगे प्रस्तुताः आदर्शाः अद्य एकविंशतितमे शताब्द्यामपि अत्यन्तं सामयिकाः प्रासङ्गिकाश्च सन्ति।
भाजपायाः प्रदेशाध्यक्षः हेमन्तखण्डेलवालः अवदत् यत् श्रीकृष्णजन्माष्टमीपर्व अस्मान् भगवत: श्रीकृष्णस्य उपदेशान् स्वजीवने आत्मसात् कृत्वा सकारा-त्मकतायाः, शान्तेः सद्भावस्य च प्रसाराय प्रेरयति। जन्माष्टमी केवलं धार्मिकः उत्सवः न, अपि तु समाजे प्रेम्णः, सौहार्दस्य, एकतायाः भ्रातृत्वस्य च सन्देशं प्रदातुं प्रेरयन् पर्व अपि अस्ति। भाजपायाः प्रदेशाध्यक्षः खण्डेलवालः प्रदेशवासिभ्यः पार्टीकार्यकर्तृभ्यश्च भगवत: श्रीकृष्णस्य आदर्शान् तस्य सन्देशं च स्वजीवने आचरित्वा जन्माष्टमीपर्व उत्साहेन, श्रद्धया हर्षोल्लासेन च आचरितुं आग्रहं कृतवान्।
Hindusthan Samachar / Divya Ranjan