मध्यप्रदेशस्य मुख्यमन्त्री डॉ. यादवः अद्य गुजरातं गमिष्यति, द्वारकाधीशमन्दिरे करिष्यति दर्शन-पूजनम्
भोपालम्, ०३ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य गुरुवासरे गुजरातस्य एकदिवसीय-प्रवासे भविष्यति। अस्मिन् प्रवासे सः जामनगरे स्थानीयकार्यक्रमे सहभागं करिष्यति तथा द्वारकां प्राप्य प्रसिद्धे द्वारकाधीशमन्दिरे पूजां दर
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, ०३ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य गुरुवासरे गुजरातस्य एकदिवसीय-प्रवासे भविष्यति। अस्मिन् प्रवासे सः जामनगरे स्थानीयकार्यक्रमे सहभागं करिष्यति तथा द्वारकां प्राप्य प्रसिद्धे द्वारकाधीशमन्दिरे पूजां दर्शनं च करिष्यति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री डॉ. यादवः गुरुवासरे प्रातः प्रायः १०.३० वादने जामनगरं प्राप्स्यति तथा स्थानीयकार्यक्रमे सहभागं करिष्यति। ततः सः प्रातः ११.१५ वादने प्रसिद्धं द्वारकाधीशमन्दिरं प्राप्य दर्शन-पूजनं करिष्यति। अनन्तरं मध्याह्ने १२.३० वादने नागेश्वरमार्गस्थितं विरम्भा आशा माणेक् परोपकारी न्यासस्य गोशालां गमिष्यति तथा स्थानीय-कार्यक्रमेषु भागं ग्रहीष्यति।

आदिवसस्य व्यस्तकार्यक्रमानन्तरं मुख्यमन्त्री यादवः रात्रौ ८.१० वादने भोपालं प्रत्यागमिष्यति।

Hindusthan Samachar / Divya Ranjan