Enter your Email Address to subscribe to our newsletters

- नूतनाः ग्रीनफील्ड-परिसराः चतुर्मार्गाश्च प्रदेशस्य सम्पर्कव्यवस्थायै नूतनां गतिं प्रदास्यन्ति : मन्त्री राकेशसिंहः
भोपालम्, ०२ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य लोकनिर्माणमन्त्री राकेशसिंहः उक्तवान् यत् मुख्यमन्त्रिणः डॉ. मोहनयादवस्य नेतृत्वे प्रदेशे मार्ग-सम्पर्कव्यवस्थां व्यापकां सुदृढां च कर्तुं अनेकासु महत्त्वपूर्णपरियोजनासु एकस्मिन् समये कार्यं क्रियते। नूतनानां ग्रीनफील्ड-परिसराणां, चतुर्मार्गाणां तथा वलयमार्गाणां माध्यमेन प्रदेशस्य प्रमुखनगराणि देशस्य विशालैः आर्थिकैः औद्योगिकैः धार्मिकैः च केन्द्रैः सह संयोज्यन्ते। अस्य उद्देश्यं सुगमयातायातेन सह व्यापारस्य, उद्योगस्य, निवेशस्य रोजगारस्य च नूतनावसराणां निर्माणम् अस्ति।
मन्त्री राकेशसिंहः बुधवासरे एकस्मिन् वक्तव्ये अवदत् यत् वाराणसी-विशाखापट्टनम्-परिसरस्य प्रथमचरणे वाराणसीनगरात् नागपुरनगरपर्यन्तं सम्पर्कव्यवस्थां विकसितुं सज्जता आरब्धा अस्ति। अस्य अन्तर्गतं मध्यप्रदेशे जबलपुर-रीवातः उत्तरप्रदेशसीमापर्यन्तं तथा दक्षिणदिशि नागपुरपर्यन्तं मार्गस्य निर्माणं भविष्यति। अनेन महाकौशल-विन्ध्यप्रदेशसहितस्य मध्यप्रदेशस्य विशालभागस्य उत्तरप्रदेशेन अग्रे महाराष्ट्रेण च सह उत्तमः मार्ग-सम्पर्कः भविष्यति।
तेन उक्तं यत् प्रस्तावितस्य अशोकनगर-सागर-जबलपुर-नागपुर-चतुर्मार्गस्य तथा सागर-कोटा-ग्रीनफील्ड-परिसरस्य माध्यमेन मध्यप्रदेशस्य राजस्थान-गुजरातदिशयोः सम्पर्कव्यवस्था सुदृढा भविष्यति। सागर-कोटा-परिसरः एनएचएआई इत्यस्य कार्ययोजनायां समाविष्टः अस्ति।
मध्यप्रदेशस्य प्रमुखान् आर्थिककेन्द्राणि संयोजयितुं जबलपुर-भोपाल-इन्दौर-ग्रीनफील्ड-परिसरस्य योजना अपि महत्त्वपूर्णा अस्ति। जबलपुरतः भोपालपर्यन्तं मार्गः एमपीआरडीसी इत्यनेन तथा भोपालतः इन्दौरपर्यन्तं मार्गः एनएचएआई इत्यनेन विकसितं कर्तुं प्रस्तावितम् अस्ति। अस्याः पूर्णतायाः अनन्तरं प्रदेशस्य त्रीणि प्रमुखनगराणि द्रुततरसुदृढमार्ग-सञ्जालेन संयोजितानि भविष्यन्ति तथा च इन्दौर-उज्जैनयोः माध्यमेन दिल्ली-मुम्बई-औद्योगिक-परिसरेण डीएमआईसी इत्यनेन सह उत्तमः सम्पर्कः प्राप्स्यते।
अस्मिन्नेव क्रमे खण्डवा (आशापुर)-नर्मदापुरम्-जबलपुर-रीवा/सतना-परिसरस्य सज्जता अपि क्रियते। अयं मार्गः पश्चिममध्यप्रदेशस्य महाराष्ट्रदिशायाः च सम्पर्कव्यवस्थां अधिकं सुदृढां करिष्यति।मन्त्री राकेशसिंहः उक्तवान् यत् एताः परियोजनाः पृथक्-पृथक् मार्ग-निर्माणकार्याणि इव न, अपितु मध्य-प्रदेशस्य समग्रसम्पर्क-सञ्जालरूपेण विकसिताः क्रियन्ते। वलयमार्गाः विविधदिशाभिः सम्बद्धाः गलियाराश्च भविष्ये लॉजिस्टिक-प्राङ्गणम्, भाण्डार-गृहाणि, शीतभाण्डाराणि, परिवहन-टर्मिनल, कृषिप्रसंस्करणकेन्द्राणि औद्योगिक-समूहानां च विकासस्य आधाराः भवितुं शक्नुवन्ति।
सः उक्तवान् यत् उत्तमः मार्गः केवलं यात्रां सुगमां न करोति, अपितु उद्योगस्य, व्यापारस्य, निवेशस्य रोजगारस्य च मार्गम् उद्घाटयति। मध्यप्रदेशस्य विभिन्नक्षेत्राणि राष्ट्रीयमार्ग-सञ्जालेन सह संयोजयितुम् अयं प्रयत्नः प्रदेशस्य अर्थव्यवस्थायै गतिं प्रदातुं विकसितमध्यप्रदेशस्य लक्ष्यं सुदृढीकर्तुं च महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
लोकनिर्माणविभागस्य अन्तर्गतं मध्य-प्रदेश-मार्ग-विकासनिगमेन अनेकेषां महत्त्वपूर्णमार्गाणां निर्माणस्य दायित्वं स्वीकृतम् अस्ति। अनेन प्रदेशे मार्ग-अधोसंरचनायाः विकासाय संस्थागतक्षमता सुदृढा भविष्यति तथा च राष्ट्रीयराज-मार्गसञ्जालेन सह राज्यस्य स्वकीय-सम्पर्कपरियोजनाभ्यः अपि गतिः प्राप्स्यते।
Hindusthan Samachar / Divya Ranjan