दिल्ली इत्यत्र निर्मास्यते बहुप्रयोजन-भूमिगत-मार्गव्यवस्था, मार्गाणां पुनः पुनः खननस्य समस्या समाप्ता भविष्यति
नवदिल्ली, ०३ सेप्टेम्बरमासः (हि.स.)। राजधानी-दिल्ली इत्यत्र मार्गाणां पुनः पुनः खननस्य समस्यां समाप्तुं दिल्ली-सर्वकारः बहुप्रयोजन-भूमिगत-मार्ग-व्यवस्थां विकसितं करिष्यति। अस्याः योजनायाः अन्तर्गतं विभिन्नानाम् आवश्यकसेवानां कृते साझा-भूमिगत-मार्गा
दिल्ली की मुख्यमंत्री रेखा गुप्ता (फाइल फोटो)


नवदिल्ली, ०३ सेप्टेम्बरमासः (हि.स.)। राजधानी-दिल्ली इत्यत्र मार्गाणां पुनः पुनः खननस्य समस्यां समाप्तुं दिल्ली-सर्वकारः बहुप्रयोजन-भूमिगत-मार्ग-व्यवस्थां विकसितं करिष्यति। अस्याः योजनायाः अन्तर्गतं विभिन्नानाम् आवश्यकसेवानां कृते साझा-भूमिगत-मार्गाः निर्मास्यन्ते, येषु विद्युत्तन्तवः, जल-गैसयोः नलिकाः, अग्निशामक-जल-सञ्चार-जालं तथा अन्याः आवश्यकाः उपयोगितासेवाः स्थापयितुं शक्यन्ते। चाँदनीचतुष्पथे एष: प्रयत्न: प्रायोगिकरूपेण कार्यान्वित: भविष्यति।

मुख्यमन्त्रिणी रेखागुप्ता गुरुवासरे विज्ञप्तिं प्रकाश्य अवदत् यत् बहुप्रयोजन-भूमिगत-मार्गाणां निर्माणेन पुनः पुनः मार्गखननस्य तस्य च मरम्मतायाः आवश्यकता न्यूनी-भविष्यति, यातायातस्य बाधाः न्यूनाः भविष्यन्ति, नागरिकानां असुविधा च न्यूनीभविष्यति। मार्गाणां संरचनात्मक-दृढतां सम्यक् संरक्षितुं च एषा व्यवस्था साहाय्यं करिष्यति। सर्वकारेण एषः निर्णयः सम्प्रति आयोजितायां मन्त्रिमण्डलसभायां स्वीकृतः।

मुख्यमन्त्रिणी अवदत् यत् दिल्ली-विकासस्य अस्माकं दृष्टिः केवलम् अद्यतनावश्यकतासु सीमिता नास्ति। वयं तादृशीम् आधारभूतसंरचनां निर्मातुम् इच्छामः या भविष्यस्य आवश्यकताः ध्यात्वा सुरक्षिता, सुव्यवस्थिता, स्थायिनी च भवेत्। बहुप्रयोजन-भूमिगत-मार्ग-व्यवस्था अस्याः एव दृष्टेः भागः अस्ति। अनेन विभिन्नासु संस्थासु उत्तमः समन्वयः भविष्यति तथा दिल्ली इत्यत्र भूमिगत-उपयोगिताजालस्य विकासाय अधिक-सुव्यवस्थिता व्यवस्था निर्मास्यते। सहभाग-भूमिगत-मार्गस्य उपलब्धतया उपयोगिताजालस्य अनुरक्षणं भविष्ये तस्य विस्तारकार्यं च अधिकं सुगमं शीघ्रं च भविष्यति। उत्खननसमये उपयोगिता-नलिकासु आकस्मिकक्षतिः भवितुं सम्भावना न्यूनीकर्तुं तथा विभिन्नानां नागरिक-उपयोगितासंस्थानां मध्ये उत्तमं समन्वयं स्थापयितुं च अनेन साहाय्यं भविष्यति।

मुख्यमन्त्रिणी अवदत् यत् सम्पूर्णव्यवस्थायाः कृते शीघ्रमेव विशेषज्ञाणां तकनीकीसमितिः गठिता भविष्यति। समितौ विद्युत्वितरणसंस्थानां, दिल्ली-जलमण्डलस्य, लोकनिर्माण-विभागस्य इत्यादिविभागानां विशेषज्ञाः अधिकारीणः सम्मिलिताः भविष्यन्ति। समितेः पर्यवेक्षणस्य अनुशंसायाश्च आधारेण राजधानीनगरस्य विभिन्नेषु क्षेत्रेषु बहुप्रयोजन-भूमिगत-मार्गाणां निर्माणं विस्तारश्च अग्रे वर्धयिष्यते। सा अवदत् यत् बहुप्रयोजन-भूमिगत-मार्गस्य तकनीकी-अभिकल्पनायां वायुसञ्चारः, अग्निसुरक्षा, अनुरक्षणाय सुगमप्रवेशः, आपत्कालीनप्रतिक्रिया इत्यादीनि आवश्यकव्यवस्थानि समा-वेशयिष्यन्ते। अस्य उद्देश्यं यत् विभिन्नाः उपयोगितासेवाः सहभाग-भूमिगत-मार्गे सुरक्षितरूपेण सुव्यवस्थितरूपेण च सञ्चालिताः भवेयुः।

मुख्यमन्त्रिणी अवदत् यत् एषा महत्त्वपूर्णा पहलः प्रथमं प्रायोगिकरूपेण कार्यान्विता भविष्यति। अस्याः कृते चाँदनीचौके एस्प्लेनेड्-मार्गे ३१० मीटर-दीर्घः भागः तथा मोरसराय-मार्गे ५६० मीटर-दीर्घः भागश्च चयनार्थं प्रस्तावितः अस्ति। एतयोः मार्गयोः कार्यं शीघ्रमेव प्रारब्धुं प्रस्तावितम् अस्ति। उभाभ्यां प्रायोगिक-भूमिगत-मार्गाभ्यां प्राप्तानाम् अनुभवाधारेण दिल्ली इत्यत्र अन्येषु भागेषु बहुप्रयोजन-भूमिगत-मार्गाणां निर्माणं भविष्यति। प्रायोगिक-परियोजनया एतद् ज्ञातुं साहाय्यं भविष्यति यत् विभिन्नाः उपयोगितासेवाः सहभाग-भूमिगत-व्यवस्थायां कथं सम्यक् समायोजिताः शक्यन्ते तथा भविष्ये दिल्ली-नगरस्य विभिन्नक्षेत्राणां आवश्यकतानुसारं एषा व्यवस्था कथं विस्तारितुं शक्यते।

मुख्यमन्त्रिणी अवदत् यत् बहुप्रयोजन-भूमिगत-मार्गव्यवस्थायाः प्रयत्न: विभिन्नाभिः संस्थाभिः स्वकीयावश्यक-तानुसारं पृथक् पृथक् क्रियमाणानां अव्यवस्थितानां भूमिगतकार्याणां स्थाने समन्वित-नगरीय-उपयोगिता-योजनायाः दिशि महत्त्वपूर्णं परिवर्तनम् अस्ति।

Hindusthan Samachar / Divya Ranjan