Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 03 सितंबरमासः (हि.स.)। केन्द्रसर्वकारेण गुरुवासरे देशस्य कार्यबलं नूतनप्रौद्योगिक्या सुसज्जितं कर्तुं द्वयोः नूतनयोः एजेन्टिक-एआई-कौशलकार्यक्रमयोः शुभारम्भः कृतः। अस्य प्रशिक्षणस्य शुभारम्भः राष्ट्रिय-इलेक्ट्रॉनिकी-सूचनाप्रौद्योगिकीसंस्थानेन (एनआईईएलआईटी) इंटेल-इण्डियासंस्थया च संयुक्तरूपेण कृतः।
केन्द्रीय-इलेक्ट्रॉनिकी-सूचनाप्रौद्योगिकी-मन्त्रालयस्य अनुसारं अस्मिन् अवसरे दिल्लीस्थिते इण्डिया हैबिटेट सेण्टर इत्यत्र “एजेन्टिक-एआई-युगाय भविष्यस्य कार्यबलस्य सज्जीकरणम्” इति विषये राष्ट्रियनेतृत्वसंवादस्य आयोजनमपि कृतम्। अस्मिन् राष्ट्रियनेतृत्वसंवादे सर्वकारस्य, शिक्षाक्षेत्रस्य, उद्योगजगतः विदेशदूतावासानां च वरिष्ठप्रतिनिधयः एकस्मिन् मञ्चे समागत्य तीव्रगत्या परिवर्तमानस्य कृत्रिमबुद्धिमत्ताक्षेत्रस्य परिदृश्यस्य तथा भारते कार्यबलविकासे तस्य प्रभावस्य विषये विचारविमर्शं कृतवन्तः।
एतेषु कार्यक्रमेषु प्रथमः ‘सर्वेभ्यः एजेन्टिक-एआई’ इति कार्यक्रमः अस्ति। अयं कार्यक्रमः शिक्षार्थिभ्यः कार्यप्रवाह-स्वचालनस्य, एआई-एजेण्टस्य बहु-एजेण्ट-प्रणालीनां च परिचयं कारयति। अस्य मुख्योद्देश्यं नो-कोड-मञ्चस्य उपयोगेन कृत्रिमबुद्धिमत्तासञ्चालितकार्यप्रवाहाणां परिकल्पनायाः नियन्त्रणस्य च व्यावहारिकानुभवं प्रदातुम् अस्ति।
द्वितीयः ‘एजेन्टिक-एआई-प्रणालीनां व्यवस्थापनम्’ इति कार्यक्रमः अस्ति। अयं कार्यक्रमः नो-कोड-लो-कोड-मञ्चानां तथा कोड्-आधारितरूपरेखाणां माध्यमेन एजेन्टिक-प्रणालीनां निर्माणे, उपकरणसमाकलने, संयोजने, परिनियोजने च केन्द्रितः अस्ति, येन विस्तारयोग्यानि उत्पादनयोग्यानि च समाधानानि विकसितुं शक्येरन्।
अस्मिन् अवसरे केन्द्रीय-चलच्चित्र-प्रमाणन-मण्डलस्य (सीबीएफसी) अध्यक्षः शशिशेखरवेेम्पतिः, एनआईईएलआईटी-संस्थायाः महानिदेशकः डॉ. एम.एम.त्रिपाठी, इण्डियाएआई-मिशनस्य मुख्यकार्यकारी अधिकारी (सीईओ) तथा इलेक्ट्रॉनिकी-सूचनाप्रौद्योगिकी-मन्त्रालयस्य संयुक्तसचिवः सुदीपश्रीवास्तवः, इंटेलस्य वैश्विकनिदेशकः अंशुलसोनाकः तथा एशिया-प्रशान्तक्षेत्रस्य वरिष्ठनिदेशिका श्वेताखुराना इत्यादयः अनेकाः गणमान्याः उपस्थिताः आसन्।
एषा संयुक्तपहलः सर्वकारस्य, उद्योगस्य शिक्षाक्षेत्रस्य च मध्ये समन्वयं स्थापयित्वा भारतस्य युवानः भविष्यस्य आवश्यकतानुसारं कुशलान् कर्तुं दिशि महत्त्वपूर्णं पदक्षेपं मन्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani