स्वच्छ-ऊर्जायाः भविष्यं विश्वसनीयाः आपूर्ति-शृङ्खलाश्च भारत-बेल्जियमयोः सहकारि-प्राथमिकताः : प्रधानमन्त्री स्वच्छ-ऊर्जायाः भविष्यं विश्वसनीयाः आपूर्ति-शृङ्खलाश्च भारत-बेल्जियमयोः साझा-प्राथमिकताः सन्ति — प्रधानमन्त्री।
नवदिल्ली, 03 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे उक्तवान् यत् भारत-बेल्जियमयोः सम्बन्धाः पारम्परिकक्षेत्रेभ्यः अग्रे वर्धित्वा रक्षायाः स्वच्छ-ऊर्जायाश्च इत्यादिषु सामरिकक्षेत्रेषु प्राप्तवन्तः सन्ति। स्वच्छ-ऊर्जायाः भविष्
प्रेस वक्तव्य देते प्रधानमंत्री


नवदिल्ली, 03 सितंबरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे उक्तवान् यत् भारत-बेल्जियमयोः सम्बन्धाः पारम्परिकक्षेत्रेभ्यः अग्रे वर्धित्वा रक्षायाः स्वच्छ-ऊर्जायाश्च इत्यादिषु सामरिकक्षेत्रेषु प्राप्तवन्तः सन्ति। स्वच्छ-ऊर्जायाः भविष्यं विश्वसनीयाः आपूर्ति-शृङ्खलाश्च उभयोः देशयोः साझा-प्राथमिकताः सन्ति। आगामीषु पञ्चवर्षेषु वयं द्विपक्षीयव्यापारं द्विगुणितं कर्तुं गच्छामः। उभयोः देशयोः मध्ये सैन्य-प्रशिक्षण-सहयोगयोः सुदृढीकरणस्य विषये सहमतिः जाता अस्ति। वयं स्वकीयाभ्यः अभिकरणेभ्यः मध्ये गुप्तसूचनानाम् अपि आदान-प्रदानं करिष्यामः।

प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे बेल्जियमस्य प्रधानमन्त्री बार्ट डी वेवर इत्यनेन सह प्रतिनिधिमण्डलस्तरीयां वार्तां कृतवान्। वार्तायाः अनन्तरं उभौ नेतारौ संयुक्तं पत्रकार-वक्तव्यं प्रदत्तवन्तौ। प्रधानमन्त्री उक्तवान् यत् उभौ देशौ जोरावर-टैङ्क इत्यादीनि आधुनिकानि रक्षोपकरणानि निर्मातुं सह कार्यं कुर्वतः स्तः। आन्ध्रप्रदेशस्य काकीनाडानगरे वयं विश्वस्य बृहत्तमेषु हरित-अमोनिया-परियोजनासु एकां परियोजनां विकसितुं कार्यं कुर्मः। सः अवदत् यत् नवीकरणीय-ऊर्जायाः क्षेत्रे अद्य उभयोः देशयोः मध्ये एकः समझौतापत्रः सम्पन्नः अस्ति। दुर्लभखनिजानां प्रसंस्करणे पुनर्चक्रणे च सहयोगं वर्धयितुं वयं निर्णयं कृतवन्तः।

सः उक्तवान् यत् अर्धचालकक्षेत्रे बेल्जियमस्य विशेषज्ञता भारतस्य क्षमताभिः सह परस्परं पूरकाः सन्ति। अस्यां दिशि वयं बेल्जियमस्य आईएमईसी-संस्थानं भारतस्य अर्धचालक-तन्त्रेण सह संयोजयितुं मिलित्वा कार्यं करिष्यामः।

वैश्विकविषयेषु प्रधानमन्त्री उक्तवान् यत् भारतं बेल्जियमश्च उभौ नियमाधारितव्यवस्थायां, संवादे कूटनीतौ च विश्वासं कुरुतः। उभौ देशौ यूक्रेन-देशे पश्चिम-एशियायां च संघर्षस्य शीघ्रसमाप्तेः शान्तेः च प्रयासानां समर्थनं कुरुतः तथा च आतङ्कवादस्य प्रत्येकं रूपं मूलतः समाप्तुं स्वां प्रतिबद्धतां पुनः प्रकटितवन्तौ।

स्वकीय-वक्तव्ये प्रधानमन्त्री भारत-बेल्जियमयोः सम्बन्धानां इतिहासं स्मृत्वा उक्तवान् यत् प्रथमविश्वयुद्धे सहस्रशः भारतीयसैनिकानां साहसं बलिदानं च अस्माकं सहकारि-स्मृतेः महत्त्वपूर्णम् अङ्गम् अस्ति। प्रधानमन्त्री उक्तवान् यत् अद्य भारतस्य विकासयात्रा विश्वे विश्वासं जनयति। अस्मिन् सन्दर्भे सः सद्यः प्रकाशितानां त्रैमासिक-विकास-प्रदत्तानां उल्लेखं कृतवान्, येषु भारतस्य सकल-घरेलू-उत्पादस्य वृद्धिः ७.५ प्रतिशतस्य गतिना भवति इति दर्शितम् अस्ति।

सः उक्तवान् यत् अद्य विश्वः उथल-पुथलस्य कालं गच्छति। विश्वस्य अनेकेषु भागेषु संघर्षस्य स्थितिः वर्तते। खाद्यस्य, इन्धनस्य, आपूर्ति-शृङ्खलायाः च प्रत्येकस्मिन् क्षेत्रे अनिश्चिततायाः प्रभावः वर्धमानः अस्ति। अस्मिन् चुनौतीपूर्णे वातावरणेऽपि भारतस्य अर्थव्यवस्था स्वगतिं निरन्तरं धारयति।

---------------

Hindusthan Samachar / Dheeraj Maithani