उचितसंरक्षणं प्राप्य सामान्यगुणोऽपि परमश्रेष्ठतां प्रतिष्ठां च प्राप्नोति - प्रधानमन्त्री मोदी
नवदिल्ली, ०३ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे सुभाषिते उचितसंरक्षणं प्राप्य सामान्यगुणोऽपि परमश्रेष्ठतां प्रतिष्ठां च प्राप्नोतीति विषये बलं प्रदत्तवान्। प्रधानमन्त्री मोदी संस्कृतस्य एकं श्लोकम् ‘एक्स’ इति माध्यमे अलिखत्— “
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, ०३ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे सुभाषिते उचितसंरक्षणं प्राप्य सामान्यगुणोऽपि परमश्रेष्ठतां प्रतिष्ठां च प्राप्नोतीति विषये बलं प्रदत्तवान्।

प्रधानमन्त्री मोदी संस्कृतस्य एकं श्लोकम् ‘एक्स’ इति माध्यमे अलिखत्— “पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः। जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदयस्य।। ”

तस्य अर्थः अस्ति यत् व्यक्तेः वस्तुनः वा सार्थकता तस्य उत्थानं च अस्मिन् विषये निर्भरं भवति यत् सः सा वा कीदृशं पात्रं परिवेशं वा प्राप्नोति। यथा साधारणमपि जलं सीप इत्यस्य संसर्गेण अमूल्यं मुक्ताफलं भवति, तथैव उचितं सुयोग्यम् आश्रयं प्राप्य सामान्यगुणोऽपि परमश्रेष्ठतां प्रतिष्ठां च प्राप्नोति।

Hindusthan Samachar / Divya Ranjan