प्रो. सतपालः कुमाऊँ-विश्वविद्यालयस्य नियमितः कुलपतिः नियुक्तः
नैनीतालम्, ०३ सेप्टेम्बरमासः (हि.स.)। उत्तराखण्डस्य विश्वविद्यालयानां कुलाधिपतिना सेवानिवृत्तेन लेफ्टिनेन्ट्-जनरलेन गुरमीतसिंहेन अल्मोडा-विश्वविद्यालयस्य कुलपतिः प्रो. सतपालसिंहबिष्टः कुमाऊँ-विश्व-विद्यालयस्य नियमितः कुलपतिः नियुक्तः। राजभवनात् सेप
प्रो. सतपाल सिंह बिष्ट


नैनीतालम्, ०३ सेप्टेम्बरमासः (हि.स.)। उत्तराखण्डस्य विश्वविद्यालयानां कुलाधिपतिना सेवानिवृत्तेन लेफ्टिनेन्ट्-जनरलेन गुरमीतसिंहेन अल्मोडा-विश्वविद्यालयस्य कुलपतिः प्रो. सतपालसिंहबिष्टः कुमाऊँ-विश्व-विद्यालयस्य नियमितः कुलपतिः नियुक्तः। राजभवनात् सेप्टेम्बरमासस्य तृतीयदिनाङ्के निर्गते आदेशे तस्य नियुक्तिः कृता अस्ति। कार्यभारग्रहणस्य दिनाङ्कात् त्रिवर्षपर्यन्तं अथवा अग्रिमादेशपर्यन्तं, यत् पूर्वं भवति, तावत् कालं यावत् सः कुलपतिपदे नियुक्तः अस्ति।

प्रो. बिष्टः सम्प्रति सोबनसिंहजीना-विश्वविद्यालयस्य, अल्मोडायाः, कुलपतिः अस्ति। इतः पूर्वं एकदिनपूर्वं कुमाऊँ-विश्वविद्यालयस्य कार्यवाहक-कुलपतेः अतिरिक्तदायित्वं प्रो. नवीनचन्द्रलोहनी इत्यस्मै समर्पितम् आसीत्। नियमित-कुलपतेः नियुक्त्या सह एषा व्यवस्था समाप्ता भविष्यति।

प्रो. बिष्टः कुमाऊँ-विश्वविद्यालयस्य प्राणिविज्ञानविभागाध्यक्षपदसहितानि विविधानि प्रशासनिकदायित्वानि निर्वुढवान् अस्ति। उच्चशिक्षायाः अनु-सन्धानस्य च क्षेत्रे तस्य दीर्घः अनुभवः अस्ति।

Hindusthan Samachar / Divya Ranjan