रक्षा मंत्री  10 वर्षेषु वैश्विकसहकारितायै 'रक्षा' कूटनीतिप्रपत्रं निर्गतम्
- वैश्विक-रक्षा-सहकारिता-कृते मार्गचित्रं दृष्टिकोणं च प्रतिपादितम्। नव दिल्ली, 03 सितंबरमासः(हि.स.)।रक्षामन्त्री राजनाथसिंहेन गुरुवासरे नवदिल्ल्याम् रक्षाकूटनीत्याः विषये ‘रक्षा’ इति दस्तावेजः प्रकाशितः। अस्मिन् आगामीषु दशवर्षेषु वैश्विक-रक्षा-
'रक्षा' कूटनीति दस्तावेज जारी करते रक्षा मंत्री राजनाथ सिंह


-

वैश्विक-रक्षा-सहकारिता-कृते मार्गचित्रं दृष्टिकोणं च प्रतिपादितम्।

नव दिल्ली, 03 सितंबरमासः(हि.स.)।रक्षामन्त्री राजनाथसिंहेन गुरुवासरे नवदिल्ल्याम् रक्षाकूटनीत्याः विषये ‘रक्षा’ इति दस्तावेजः प्रकाशितः। अस्मिन् आगामीषु दशवर्षेषु वैश्विक-रक्षा-साझेदारी-कृते भारतस्य सामरिकं मार्गचित्रं दृष्टिकोणं च प्रतिपादितम् अस्ति। अयं दस्तावेजः भारतस्य सामरिक-सहभागितायां भवमानं परिवर्तनं प्रदर्शयति, येन दीर्घकालिक-स्थिरतायाः परस्पर-विकासस्य च प्रोत्साहनं भविष्यति।

अस्मिन् मार्गचित्रे द्विपक्षीयस्य बहुपक्षीयस्य च सुरक्षासहयोगस्य सुदृढीकरणाय सामरिक-साझेदारी, संयुक्त-सैन्याभ्यासाः, प्रशिक्षण-कार्यक्रमाः च वर्धयितुं तथा मित्रराष्ट्रैः सह सर्वोत्तम-प्रथानां आदान-प्रदानं कर्तुं बलं प्रदत्तम् अस्ति। विश्वसनीय-वैश्विक-रक्षा-विनिर्माणकेन्द्ररूपेण देशस्य स्थापनायै ‘मेक-इन-इण्डिया’ रक्षा-मञ्चानां प्रोत्साहनेऽपि विशेषः बलः प्रदत्तः अस्ति।

अपि च समुद्रीय-सुरक्षायाः अन्तर्गतं हिन्दमहासागर-क्षेत्रे सुरक्षाप्रदातारूपेण प्रथम-प्रत्युत्तरदातृरूपेण च भारतस्य भूमिकां सुदृढां कर्तुं कथितम् अस्ति, यतः रक्षाकूटनीतिः भारतस्य विदेशनीतेः प्रमुखः स्तम्भः अस्ति। अयं दस्तावेजः आगामी-दशकाय स्पष्टां कार्यान्वयनयोग्यां दृष्टिं प्रददाति, येन परिवर्तमानस्य वैश्विक-परिवेशस्य मध्ये भारतः शान्तेः स्थैर्यस्य नियमाधारित-व्यवस्थायाश्च महत्त्वपूर्णः अङ्गः निरन्तरं भवेत्।

अस्मिन् अवसरे सेनाप्रमुखः जनरलः धीरजसेठः, रक्षासचिवः राजेशकुमारसिंहः, रक्षाउत्पादन-सचिवः सञ्जीवकुमारः, विदेशमन्त्रालयस्य पूर्व-विभागस्य सचिवः रुद्रेन्द्रटनडनः, उपवायुसैनाप्रमुखः एयरमार्शलः आशुतोषदीक्षितः, उपनौसेनाप्रमुखः वाइसएडमिरलः अजयकोचरः, एकीकृत-रक्षा-कर्मचारीप्रमुखस्य कार्यालयात् सेनाध्यक्ष-समितेः अध्यक्षः एयरमार्शलः तेजिन्दरसिंहः तथा रक्षामन्त्रालयस्य, विदेशमन्त्रालयस्य, राष्ट्रिय-सुरक्षापरिषदः सचिवालयस्य च वरिष्ठाः अधिकारिणः उपस्थिताः आसन्।

---------------------------

Hindusthan Samachar / Dheeraj Maithani