Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०३ सेप्टेम्बरमासः (हि.स.)। दिल्लीविधानसभायाः अध्यक्षः विजेन्द्रगुप्तः गुरुवासरे दिल्लीविधानसभापरिसरे असम-विधानसभायाः अध्यक्षेन रणजीतकुमारदासेन सह शिष्टाचार-साक्षात्कारं कृतवान्। अस्मिन् अवसरे उभाभ्याम् अध्यक्षाभ्यां राज्य-विधानसभानां परिवर्तमानभूमिका, विधायी-आधुनिकीकरणम्, सततविकासः, संसदीयपरम्परायाः संरक्षणम् इत्यादिषु विविधेषु विषयेषु विचाराणाम् आदान-प्रदानं कृतम्। भ्रमणस्य अवसरे उभौ अध्यक्षौ दिल्लीविधानसभायाः युवसम्पर्क-कार्यक्रमस्य अन्तर्गतं केशवमहा-विद्यालयस्य ‘जेन-जी’ विद्यार्थिभिः सह अपि संवादं कृतवन्तौ।
विद्यार्थिभ्यः सम्बोधयन् दिल्लीविधान-सभाध्यक्षः विजेन्द्रगुप्तः अवदत् यत् भारतस्य लोकतन्त्रस्य विकासस्य च भविष्यस्य स्वरूपनिर्धारणे ‘जेन-जी’ इति युववंशस्य भूमिका निर्णायिका भविष्यति तथा युवा-नागरिकान् विधायीसंस्थाभ्यः अधिकं समीपम् आनेतुं आवश्यकता अस्ति। गुप्तः अवदत् यत् यदा युवानः स्वकीयाः लोकतान्त्रिकसंस्थाः अवगच्छन्ति, प्रश्नान् पृच्छन्ति, जागरूकतया उत्तरदायित्वबोधेन च सार्वजनिकजीवने भागं गृह्णन्ति, तदा लोकतन्त्रं अधिकं सुदृढं भवति। ‘जेन-जी’ केवलं अस्माकं लोकतन्त्रस्य भविष्यं नास्ति, अपितु वर्तमानकालेऽपि लोक-तन्त्रस्य महत्त्वपूर्णः स्वरः अस्ति।
असमविधानसभाध्यक्षः रणजीत-कुमारदासः अपि विद्यार्थिभिः सह संवादं कुर्वन् तेषां प्रश्नानाम् उत्तराणि दत्तवान् तथा विधानसभायाः भ्रमणं लोकतन्त्रस्य प्रत्यक्षं कार्यरूपं ज्ञातुं महत्त्वपूर्णम् अवसरम् इति उक्तवान्। दासः अवदत् यत् कस्यचित् विधानमण्डलस्य भ्रमणं कृत्वा तस्य अन्तः तस्य कार्यप्रणालीं ज्ञातुं शक्नोति इति विशेषः अवसरः अस्ति। युवसम्पर्ककार्यक्रमस्य अन्तर्गतं विद्यार्थिभ्यः विधानसभाभवनस्य मार्ग-दर्शितं भ्रमणमपि कारितम्, यत्र ते दिल्लीविधानसभायाः कार्यप्रणाल्या संस्थागतइतिहासेन च परिचिताः कृताः। विद्यार्थिभ्यः “विठ्ठलभाई-गौरवगाथा” इति वृत्तचित्रमपि प्रदर्शितम्, यस्मिन् विठ्ठलभाईपटेलस्य जीवनं, योगदानं, संसदीयपरम्परा च प्रमुखतया प्रदर्शितानि सन्ति। अस्य कार्यक्रमस्य उद्देश्यं नागरिकशिक्षां केवलं कक्ष्यापर्यन्तं सीमितां न कृत्वा विद्यार्थिभ्यः विधायिकायाः सजीव-लोकतान्त्रिक-संस्थारूपेण प्रत्यक्षानुभवं प्रदातुं तथा तस्याः सञ्चालनसम्बद्धैः जनैः सह प्रत्यक्ष-संवादस्य अवसरं प्रदातुम् आसीत्।
विजेन्द्रगुप्तः रणजीतकुमारदासाय दिल्लीविधानसभायां प्रौद्योगिक्याः सततविकासस्य च क्षेत्रयोः क्रियमाणानां परिवर्तनानाम् विषये अपि सूचनां दत्तवान्। एतेषु विधानसभायाः पूर्णतया कागदरहित-विधायीकार्यप्रणाली, पूर्णतया सौरऊर्जया सञ्चालितां विधानसभा भवितुं प्रचलिताः प्रयासाः तथा ‘विधानसाथी’ इति विधानसभायाः स्वकीयः कृत्रिमबुद्धि-सक्षमः मञ्चः च अन्तर्भवन्ति। एषः मञ्चः विधायकानां कृते विधायी-सूचनानां सुगमप्रवेशं प्रदातुं विकसितः अस्ति। गुप्तः रेखाङ्कितवान् यत् एतासाम् उपक्रमाणाम् उद्देशः विधायीकार्यप्रणालीं अधिकं दक्षां पर्यावरणोत्तरदायित्वयुक्तां च कर्तुं तथा सदस्येभ्यः तेषां दायित्वनिर्वहणे उत्तमं सहयोगं प्रदातुम् अस्ति।
Hindusthan Samachar / Divya Ranjan