Enter your Email Address to subscribe to our newsletters

वाराणसी, 03 सितम्बरमासः (हि. स.)।
वाराणसी-कैण्ट-विधानसभाक्षेत्रस्य विधायकः सौरभश्रीवास्तवः गुरुवासरे प्रातःकाले जनसम्पर्कं कृत्वा चायापणे चायं पिबन् काङ्ग्रेसनेता राहुलगान्धिनं लक्ष्यीकृत्य उक्तवान् यत् एतत् वाराणसीनगरम् अस्ति, अत्र कस्यापि कृते कपः वा चषकः वा आरक्षितः नास्ति। वाराणस्यां कुल्हडपात्रे एव चायापानं अद्यापि जनानां रोचते। अत्र काचचषकात् कपात् वा अधिकं कुल्हडपात्रं जनैः पसन्द्यते, यस्मिन् सर्वे जनाः भेदभावं विना चायं पिबन्ति।
विधायकः सौरभश्रीवास्तवः उक्तवान् यत् राहुलगान्धी कथयति यत् चायापणे सवर्णानां कृते काचस्य चषकाः, दलितानां कृते कागदस्य वा प्लास्टिकस्य चषकाः मृत्तिकायाः कुल्हडपात्राणि च स्थापितानि भवन्ति। मह्यं तु एतज्ज्ञानम् अधुना एव प्राप्तम्। यतः बाल्यकालात् यदा कदापि चायापणे गतवान्, तदा कुल्हडपात्रे एव चायां याचितवान्। यः स्वादः कुल्हडपात्रे पच्यमानायां चायायाम् अस्ति, सः अन्यस्मिन् कस्मिन्नपि पात्रे नास्ति।
--------------
Hindusthan Samachar / Dheeraj Maithani