चित्रकूटम् : वृष्टौ भवनस्य भीत्तिपतनेन पित्रा पुत्रेण सहितानां त्रयाणां मृत्युः, मुख्यमंत्रिणा प्रकटितः शोकः
चित्रकूटम्, 03 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य चित्रकूटजनपदे निरन्तरं भवती वृष्टिः अधुना जनानां कृते मृत्युरूपा भवति। अत्र भरतकूपपुलिसस्थानकक्षेत्रान्तर्गते बराछग्रामे गतबुधवासरे अर्धरात्रौ प्रबलवृष्टेः कारणेन गृहस्य एका भित्तिः अकस्मात् पतिता
अस्पताल में डायलॉग का जायजा लेते डीएम एवं एसपी के साथ मेडिकल टीम


चित्रकूटम्, 03 सितंबरमासः (हि.स.)।

उत्तरप्रदेशस्य चित्रकूटजनपदे निरन्तरं भवती वृष्टिः अधुना जनानां कृते मृत्युरूपा भवति। अत्र भरतकूपपुलिसस्थानकक्षेत्रान्तर्गते बराछग्रामे गतबुधवासरे अर्धरात्रौ प्रबलवृष्टेः कारणेन गृहस्य एका भित्तिः अकस्मात् पतिता। तेन एकस्यैव परिवारस्य पञ्च जनाः भग्नभित्तेः अवशेषेषु निपतिताः। तेषु गृहस्वामी तथा द्वौ बालकौ सहिताः त्रयः जनाः हृदयविदारकदुर्घटनायां मृताः। अपरतः एका महिला एका बालिका च घायिते अभवताम्, ययोः शीघ्रतया चिकित्सार्थं जिलाचिकित्सालये प्रवेशः कारितः। अस्याः घटनायाः मुख्यमन्त्रिणा योगी आदित्यनाथेन संज्ञानं गृहीत्वा मृतकानां प्रति गहनः शोकः व्यक्तः।

भरतकूपपुलिसस्थानकक्षेत्रस्य बराछग्रामे गतबुधवासरे रात्रौ द्वादशवादने कल्लू यादवः स्वपत्नी कुंता देवी तथा त्रिभिः सन्तानैः अंशः, कल्ली, आंशिकः च सह भोजनं कृत्वा गृहे सुप्तः आसीत्। रात्रौ निरन्तरं भवमानायाः प्रबलवृष्टेः कारणेन गृहस्य भित्तिः भग्ना अभवत्, येन सर्वे जनाः मलबे अधः दबिताः।

चीत्कारं श्रुत्वा समीपवासिनः घटनास्थलं प्राप्य तान् मलबात् बहिः निष्कासयितुं प्रयत्नं कृतवन्तः तथा प्रशासनाय घटनायाः सूचना दत्ता। किन्तु वृष्टेः कारणेन चतुर्दिक्षु नदीनालादीनां जलस्तरः वर्धितः आसीत् तथा ग्रामं प्रति गन्तुमार्गस्य उपरि जलं प्रवहति स्म। अतः ग्रामस्य सम्पर्कः तहसीलमुख्यालयेन सह विच्छिन्नः आसीत्, यस्य कारणेन प्रशासनस्य सहायता तत्कालं घटनास्थलं प्राप्तुं न अशक्नोत्। अनन्तरं प्रशासनं शीघ्रतया राष्ट्रीय-आपदुद्धारबलस्य दलं घटनास्थलं प्रेषितवान्।

राष्ट्रीय-आपदुद्धारबलस्य दलं कथञ्चित् घटनास्थलं प्राप्य घायितान् जनान् बहिः निष्कासितवान् तथा तान् चिकित्सार्थं जिलाचिकित्सालये प्रवेशितवान्। अस्यां घटनायां मलबे दबित्वा गृहस्वामी कल्लू, तस्य पुत्रः अंशः तथा पुत्री कल्ली इति त्रयः जनाः मृताः। मृतकस्य पत्नी कुंता तथा तस्याः पुत्री अंशिका च घायिते स्तः, तयोः चिकित्सा प्रचलति।

घटनानन्तरं अपरजिलाधिकारी, पुलिसक्षेत्राधिकारी च पुलिसबलैः सह कथञ्चित् घटनास्थलं प्राप्तवन्तः। पुलिसकर्मचारिभिः त्रयाणां मृतकानां शवाः ट्रैक्टरयानेन बहिः निष्कासिताः तथा घटनायाः अन्वेषणं प्रारब्धम्।

सदर-उपखण्डाधिकारी अजय यादवः उक्तवान् यत् ह्यः वृष्टेः कारणेन पर्वतेभ्यः जलम् आगतम्, येन एकस्य गृहस्य भित्तिः पतिता। तस्याः भित्तेः अवशेषेषु एकस्यैव परिवारस्य पञ्च जनाः दबिताः। तेषु पुत्रस्य, पुत्र्याः पितुः च मृत्युः अभवत्। दुर्घटनायां मृतकस्य पत्नी एका पुत्री च घायिते स्तः, तयोः चिकित्सा क्रियते। अस्यां दैवीयापदायां पीडितपरिवाराय राहतकोषात् आर्थिकसहायता प्रदास्यते।

घटनायाः सूचना प्राप्त्वा गुरुवासरे प्रातः सदरविधानसभाक्षेत्रस्य विधायकः अनिलप्रधानः घटनास्थलं प्राप्तवान् तथा परिस्थितेः निरीक्षणं कृतवान्। सः उक्तवान् यत् जनपदे निरन्तरं भवत्या वृष्ट्या जनाः पीडिताः सन्ति। सर्वत्र जलमेव दृश्यते। वृष्टेः कारणेन एका भित्तिः पतिता, येन त्रयाणां जनानां मृत्युः अभवत् तथा द्वौ जनौ घायितौ। इयं हृदयविदारिका घटना अस्ति। अस्यां घटनायां मुख्यमन्त्रिणः समक्षं पीडितानां पृथग् साहाय्यस्य मागं करोमि।

अपरतः चिकित्सालये जिलाधिकारी तथा पुलिसाधीक्षकः घायितानां कुशलक्षेमं ज्ञातुं प्राप्तवन्तौ। अधिकारिभिः उक्तं यत् सहायतया सह पीडितानां उत्तमचिकित्सा अपि सुनिश्चितं क्रियते।

अस्याः दुर्घटनायाः मुख्यमन्त्रिणा योगी आदित्यनाथेन संज्ञानं गृहीत्वा मृतकानां शोकसन्तप्तपरिजनेभ्यः गभीरा संवेदना व्यक्ता। मुख्यमन्त्रिणा गुरुवासरे अधिकारिभ्यः तत्कालं घटनास्थलं प्राप्य राहत-उद्धारकार्याणि तीव्रतया सञ्चालयितुं तथा घायितानां समुचितचिकित्सां सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः।

तेन अधिकारिभ्यः उक्तं यत् मृतकानां परिजनैः सह संवादं कृत्वा तेभ्यः सर्वसम्भवसहायता प्रदीयताम्। दुर्घटनया जाता जनहानिः आर्थिकक्षतिश्च तत्कालं मूल्याङ्कयित्वा चतुर्विंशतिघण्टाभ्यन्तरे नियमानुसारं क्षतिपूर्तिः प्रदातुं निर्देशाः अपि प्रदत्ताः।

मुख्यमन्त्री योगी घायितानां शीघ्रस्वास्थ्यलाभस्य कामनां कुर्वन् अधिकारिभ्यः चिकित्सायां कस्यापि प्रकारस्य उपेक्षां न कर्तुं तथा पीडितपरिवारेभ्यः सर्वसम्भवसहायतां प्रदातुं निर्देशान् दत्तवान्।

---------------