Enter your Email Address to subscribe to our newsletters

—मुख्यमन्त्रिणा स्वामिहरिदास-प्रेक्षागृहस्य लोकार्पणं कृतम्, सन्ताः सम्मानिताः
—मुख्यमन्त्रिणा वितानानां निरीक्षणं कृतम्, पुस्तकस्य विमोचनं च कृतम्
—योजनानां लाभार्थिभ्यः प्रमाणपत्राणि, स्वीकृतिपत्राणि, कुञ्चिकाः, धनादेशाश्च प्रदत्ताः
—मुख्यमन्त्रिणा बालकानाम् अन्नप्राशनं कारितम्, महिलाभ्यः उपहाराः प्रदत्ताः
—मञ्चे भारतीयसंस्कृतेः मनोहरं प्रदर्शनम्, ५१ कलाकारैः भगवत: श्रीकृष्णस्य विविधरूपाणि भावाश्च नृत्येन प्रस्तुताः
मथुरा, ०३ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः जन्माष्टम्याः एकदिनपूर्वं गुरुवासरे विकासपरियोजनानाम् उपहाररूपेण प्रदत्तेन नवनीतेन ब्रजवासिनां 'घटं’ पूरितवान्, येन स्थानीयनागरिकाणां जीवने हर्षस्य प्रसन्नतायाश्च वातावरणं व्याप्तम्। मुख्यमन्त्रिणा स्वामिहरिदास-प्रेक्षागृहस्य लोकार्पणं कृतम्। अत्र सन्तानाम् अपि सम्माननं कृतम्। तैः सह सर्वकारस्य विविधयोजनानां लाभाः अपि प्रदत्ताः। मुख्यमन्त्रिणा विविधयोजनानां लाभार्थिनः सम्मानिताः। आयोजनात् पूर्वं मुख्यमन्त्रिणा एकस्मै लाभार्थिने हलयन्त्रस्य कुञ्चिका अपि प्रदत्ता।
मुख्यमन्त्री-आवासयोजनायाः लाभं प्राप्तवद्भ्यः सपेरासमुदायस्य लाभार्थिभ्यः, जनप्रतिनिधिभ्यः, सन्तेभ्यः, उत्तरप्रदेश-ब्रजतीर्थविकासपरिषदः पदाधिकारिभ्यः, स्वयं सहायता-समूहस्य महिलाभ्यश्च मुख्यमन्त्रिणे स्मृतिचिह्नानि प्रदत्तानि। मुख्यमन्त्रिणा १९८०-वर्षीय-वर्गस्य भारतीयप्रशासनिकसेवायाः (सेवानिवृत्तायाः) अधिकारी आराधनाजौहर्याः पुस्तकस्य विमोचनं कृतम्। मुख्यमन्त्रिणा तस्यै अपि शुभकामनाः प्रदत्ताः।
मुख्यमन्त्रिणा नन्हेबालकान् अङ्के गृहीत्वा स्नेहेन लाडिताः। तेषां ललाटे चन्दनं लेपितम्, क्रीडनकानि च प्रदत्तानि। मुख्यमन्त्रिणा बालकानाम् अन्नप्राशनसंस्कारं कारयित्वा तेभ्यः पायसम् अपि भोजितम्। मुख्यमन्त्रिणा मातृशक्तये उपहाराः फलानां च करण्डा: प्रदत्ताः।
मुख्यमन्त्रिणा स्वामिहरिदास-प्रेक्षागृहस्य लोकार्पणं कृतम्। अत्र मुख्यमन्त्री योगी आदित्यनाथः, सांसद्-चलच्चित्राभिनेत्री हेमामालिनी च अन्यैः सह छायाचित्रं गृहीतवन्तौ। अस्मिन् अवसरे प्रेक्षागृहस्य निर्माणेन विकासेन च सम्बद्धा लघुचलच्चित्रपट्टिका अपि प्रदर्शिता। तदपूर्वं मुख्यमन्त्रिणा मन्त्रपाठं कुर्वद्भिः बटुकैः सह परिचयः प्राप्तः। मुख्यमन्त्रिणा सन्तेभ्यः माल्यार्पणं कृत्वा फलानि, अङ्गवस्त्राणि च प्रदाय सम्माननमपि कृतम्।
मञ्चे हनुमानप्रसादधानुका-विद्यालयस्य, वृन्दावनस्य छात्राभिः राष्ट्रगीतस्य अपि प्रस्तुति: कृता। ५१ कलाकारैः ‘शिवोऽहं प्रोडक्शन्’ इत्यस्य पक्षतः भारतस्य विभिन्नराज्यानां नृत्यशैलीनां माध्यमेन भगवत: श्रीकृष्णस्य विविधरूपाणि भावाश्च प्रस्तुताः। अस्याः प्रस्तुत्याः नृत्यनिर्देशिका वाराणसीस्थितस्य काशीहिन्दूविश्वविद्यालयस्य कथकनृत्याङ्गना शिवानीमिश्रा आसीत्।
मुख्यमन्त्रिणा अत्र विभिन्नविभागैः स्थापितानां स्टॉलानाम् अपि निरीक्षणं कृतम्। योजनानां प्रगतिं ज्ञातुं सः महिलाभिः सह विविधसामग्रीणां, वस्त्राणां, उत्पादानां च निर्मातृभिः सह तेषां कार्यसम्बद्धां सूचनाम् अपि प्राप्तवान्। महिला-स्वयंसेवी-समूहानां महिलाभिरपि स्वकीयकार्याणां विषये मुख्यमन्त्रिणे सूचना प्रदत्ता।
मुख्यमन्त्री योगी आदित्यनाथः प्रधानमन्त्री-आवासयोजना २.० (नगरीया) तथा मुख्यमन्त्री-आवासयोजना (ग्रामीणा) इत्येतयोः अन्तर्गतं ७२४० लाभार्थिभ्यः सहायतराशेः वितरणं कृतवान्। अस्मिन् अवसरे तेन मञ्चे विविधयोजनानां लाभार्थिभ्यः स्वीकृतिपत्राणि, प्रमाणपत्राणि, धनादेशान्, कुञ्चिकाश्च प्रदत्ताः।
मुख्यमन्त्रिणा एतेभ्यः सम्मानं प्रदत्तम्
मनोजकुमारः — मुख्यमन्त्री-युवा-उद्यमी-विकास-अभियानस्य अन्तर्गतं पञ्चलक्षरूप्यकाणां धनादेशः।
अर्चना — विश्वकर्मा-श्रम-सम्मान-योजनायाः अन्तर्गतं दर्जी-व्यवसायस्य उपकरणपेटिका।
तोरणसिंहः — मुख्यमन्त्री-मत्स्यसम्पदा-योजनायाः अन्तर्गतं ३.२० लक्षरूप्यकाणां स्वीकृतिपत्रम्।
शैलेन्द्रसिंहः — मिनी-नन्दिनी-कृषक-समृद्धि-योजनायाः अन्तर्गतं ११.८० लक्षरूप्यकाणां स्वीकृतिप्रमाणपत्रम्।
पुष्पेन्द्रसिंहः — मुख्यमन्त्री-स्वदेशी-गोसंवर्धन-योजनायाः अन्तर्गतं ८० सहस्ररूप्यकाणां स्वीकृतिप्रमाणपत्रम्।
डॉ. प्रिन्सेज् चक्रवर्ती — नियुक्तिपत्रम्।
डॉ. रजतद्विवेदी — नियुक्तिपत्रम्।
मुरारीलालः — कन्याविवाह-सहायता-योजनायाः अन्तर्गतं ६५ सहस्ररूप्यकाणां धनादेशः।
राजवीरसिंहः — दुग्धप्रसंस्करणाय ८.७५ लक्षरूप्यकाणां धनादेशः।
सौरभकुमारवर्मा — मसालाप्रसंस्करणाय ४.१२ लक्षरूप्यकेभ्यः अधिकस्य धनादेशः।
अजयः — डिजिटल-पुस्तकालये तथा पुलिसविभागे उपनिरीक्षकपदे चयनितत्वाय प्रशस्तिपत्रम्।
पायल — लाडली-वन् तथा बृहत्-वृक्षारोपणाय प्रशस्तिपत्रम्।
श्यामवती — मुख्यमन्त्री-आवासयोजनायाः अन्तर्गतं स्वीकृतिपत्रं कुञ्चिका च।
ममता — मुख्यमन्त्री-आवासयोजनायाः अन्तर्गतं स्वीकृतिपत्रं कुञ्चिका च।
सुखदेई — मुख्यमन्त्री-कृषक-दुर्घटना-कल्याण-योजनायाः अन्तर्गतं पञ्चलक्षरूप्यकाणां धनादेशः।
Hindusthan Samachar / Divya Ranjan