प्रधानमन्त्री महानायकम् उत्तमकुमारं जन्मशताब्द्यां श्रद्धाञ्जलिम् अर्पितवान्
नवदिल्ली, ०३ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे अभिनेता-चलच्चित्रनिर्मातारं च उत्तमकुमारं तस्य जन्मशताब्दीसमये श्रद्धाञ्जलिम् अर्पितवान्। प्रधानमन्त्री मोदी ‘एक्स’ इति माध्यमे लिखितवान्— “महानायकः उत्तमकुमारः एतादृशः दिग्गजकला
प्रतीकात्मक


नवदिल्ली, ०३ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे अभिनेता-चलच्चित्रनिर्मातारं च उत्तमकुमारं तस्य जन्मशताब्दीसमये श्रद्धाञ्जलिम् अर्पितवान्।

प्रधानमन्त्री मोदी ‘एक्स’ इति माध्यमे लिखितवान्— “महानायकः उत्तमकुमारः एतादृशः दिग्गजकलाकारः आसीत्, यस्य शाश्वतम् अभिनयकौशलं प्रत्येकवंशस्य जनान् संयोजयति। तस्य जन्मशताब्द्यां तस्मै श्रद्धाञ्जलिः।”

सः गत-रविवासरे ‘मन की बात’ इति कार्यक्रमे अभिनेता उत्तमकुमारस्य विषये उल्लेखं कुर्वन् उक्तवान् आसीत् यत् उत्तमकुमारः बहुमुखप्रतिभासम्पन्नः अभिनेता आसीत्, यः स्वाभिनयेन जनानां हृदयेषु स्थिरस्थानं प्राप्तवान्। चलच्चित्रप्रेमिणः मन्यन्ते यत् सत्यजित् रे इत्यनेन ‘नायक - द हीरो’ इति चलच्चित्रस्य सम्पूर्णा पटकथा महानायकम् उत्तमकुमारं मनसि निधाय लिखिता आसीत्।

प्रधानमन्त्रिणः मतम् अस्ति यत् पात्राणां सजीवीकरणाय सः अत्यन्तं परिश्रमं करोति स्म। उत्तमकुमारः स्वाभाविकतया सह परोपकारकार्याणां कृतेऽपि प्रसिद्धः आसीत्। तस्य जीवनेन कदापि पराजयं न स्वीकर्तव्यमिति अपि महती शिक्षा प्राप्यते। तस्य प्रारम्भिकचलच्चित्राणि विशेषं सफलानि न अभवन्, तथापि सः स्वकार्ये एकाग्रतां निरन्तरं धृतवान्। अस्य एव परिणामः आसीत् यत् सः एतादृशीम् ऊर्ध्वतां प्राप्तवान्।

उल्लेखनीयं यत् उत्तमकुमारः स्वस्य कार्यजीवनस्य प्रारम्भे ‘फ्लॉप मास्टर जनरल’ इत्युपहासस्य अपि सम्मुखिनः अभवत्। ततः परं स्वस्य सहजाभिनयेन आकर्षकव्यक्तित्वेन च सः बङ्गालीचल-च्चित्रजगति नूतनं शिखरं प्राप्तवान्। तस्य प्रमुखचलच्चित्रेषु ‘सप्तपदी’, ‘अग्निपरीक्षा’, ‘हारानो सुर’, सत्यजित् रे इत्यस्य ‘नायक’ तथा ‘चिड़ियाखाना’ इत्येतानि सन्ति। अभिनेता उत्तमकुमारः १९६८ तमे वर्षे ‘नायक’ तथा ‘चिड़ियाखाना’ इति चलच्चित्रयोः कृते सर्वश्रेष्ठ-अभिनेता-रूपेण प्रथमं राष्ट्रीयचलच्चित्रपुरस्कारं प्राप्तवान्।

Hindusthan Samachar / Divya Ranjan