Enter your Email Address to subscribe to our newsletters

पश्चिम बर्दवानः, 03 सितंबर (हि.स.)।धनस्य महती न्यूनता आसीत्, किन्तु मनसि आशायाः कापि न्यूनता नासीत्। एतस्याः आशायाः परिश्रमस्य च सहारेण शान्तिपुरस्य युवा कलाकारः विकासदे निरन्तरम् अग्रे गच्छन् आसीत्, अधुना तस्य परिश्रमस्य फलमपि तेन प्राप्तम् अस्ति।
पारिवारिक-आर्थिककाठिन्यस्य कारणेन विकासः कदापि महर्घाणि वर्णद्रव्याणि तूलिकाश्च क्रेतुं न अशक्नोत्। किन्तु तेन स्वस्य कलासाधनायां विरामः न दत्तः। शान्तिपुरस्य अयं युवा कलाकारः केवलं पञ्चतः दशरूप्यकपर्यन्तमूल्यान् साधारणान् वर्णयुक्तान् बॉलपेनलेखनीन् एव स्वकलायाः माध्यमत्वेन स्वीकृतवान्। एताभिः लेखनीभिः विकासः स्वचित्रेषु मानवजीवनस्य जीवनदर्शनस्य च विविधपक्षान् चित्रयति।
तस्य एका अनोखी पेन-चित्रकला ‘वाण्डरिङ्ग् इन् योरसेल्फ्’ अर्थात् ‘स्वस्य अन्तः विचरणम्’ इति नाम्नी अधुना थाईलैण्डदेशस्य अन्तर्राष्ट्रीयप्रदर्शिन्यां प्रदर्शनाय चयनिता अस्ति।
विकासस्य बाल्यकालादेव चित्रकलायां गहनरुचिः आसीत्। प्रथम-द्वितीयकक्षायां पठन् एव सः गृहे भूमौ पुस्तिकापत्रेषु च लेखनीभिः अंकिनीभिश्च चित्राणि निर्मातुम् अभ्यस्यति स्म। कालेन सह एषा रुचिः नियमितकलासाधनायां परिणता।
पारम्परिकवर्णद्रव्याणां, तूलिकानां महर्घकलासामग्रीणां च स्थाने विकासः स्वपरितः सुलभतया उपलब्धां साधारणां बॉलपेनलेखनीम् एव स्वसृजनशीलतायाः प्रमुखमाध्यमत्वेन स्वीकृतवान्। केवलं पञ्चतः दशरूप्यकपर्यन्तमूल्याभिः वर्णयुक्ताभिः बॉलपेनलेखनीभिः सः सूक्ष्मरेखाः, वर्णानां प्रयोगं विविधच्छायाश्च निर्माय स्वपेनचित्रकलां रचयति।
तस्य कलाकृतिषु मानवजीवनं, भावनाः, मनुष्यस्य अन्तर्मनसा सम्बद्धाः विविधाः अनुभूतयश्च दृश्यन्ते। ‘वाण्डरिङ्ग् इन् योरसेल्फ्’ इति नामके चित्रेऽपि तेन मानवजीवनदर्शनस्य विभिन्नरूपाणि प्रस्तोतुं प्रयासः कृतः अस्ति।
तथापि विकासस्य कलासाधनायाः यात्रा सुकरा न आसीत्। परिवारस्य दुर्बलार्थिकस्थितेः कारणेन तस्मै न कलामहाविद्यालये अध्ययनस्य अवसरः प्राप्तः, न च महर्घाणि वर्णद्रव्याणि, तूलिकाः अन्याः कलासामग्रीश्च क्रेतुं सुविधा प्राप्ता।
किन्तु आर्थिकसीमाः तस्य स्वप्नानां कलामार्गस्य च बाधाः न भवितुम् अशक्नुवन्। साधारणां लेखनीम् अंकनीं च स्वसहचररूपेण स्वीकृत्य विकासः निरन्तरम् अभ्यासं कुर्वन् आसीत्। अद्य तस्यैव लग्नतायाः परिश्रमस्य च परिणामस्वरूपं तस्य पेन-चित्रकला थाईलैण्डदेशस्य अन्ताराष्ट्रियप्रदर्शिन्यै चयनिता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani