Enter your Email Address to subscribe to our newsletters

लखनऊम्, ०३ सेप्टेम्बरमासः (हि.स.)। नगरविकास-ऊर्जामन्त्री ए.के.शर्मा गुरुवासरे लखनऊनगरस्य आशियाना-स्थितं नालं अकस्मात् निरीक्ष्य वर्षाकाले जलनिष्कासनस्य व्यवस्थायाः स्थितिम् अवलोकितवान्। निरीक्षणस्य समये तेन जलप्लावनस्य समस्यायाः तत्क्षण-समाधानाय नालस्य सम्यक्-स्वच्छतायै जलनिष्कासनव्यवस्थायाः समुचित-सुनिश्चिततायै च आवश्यकाः निर्देशाः प्रदत्ताः।
मन्त्रिणा शर्मणा अधिकारिभ्यः निर्देशः प्रदत्तः यत् वर्षाकालं दृष्ट्वा येषु येषु क्षेत्रेषु जलप्लावनस्य स्थितिः उत्पद्यते, तत्र युद्धस्तरेण अभियानं सञ्चाल्य जलनिष्कासनं सुनिश्चितं क्रियताम्। नालानां नालीमार्गाणां च नियमितरूपेण स्वच्छता कारयितव्या तथा जलनिष्कासने कस्यापि प्रकारस्य बाधा न भवेत्। सः अवदत् यत् वर्षाकाले जलप्लावनस्य कारणेन जनसामान्यस्य आवागमने अथवा दैनिककार्येषु कस्यापि दशायां कष्टं न भवेत्। एतदर्थं नगरनिगमस्य सम्बन्धितविभागानां च अधिकारिणः क्षेत्रे निरन्तरं भ्रमणं कृत्वा स्थितेः निरीक्षणं कुर्वन्तु तथा आवश्यकतानुसारं तत्क्षणं कार्यवाहीं कुर्वन्तु।
मन्त्री अधिकारिभ्यः स्पष्टनिर्देशं दत्त्वा अवदत् यत् जलप्लावनस्य स्थितौ तत्क्षणं प्रभावी कार्यवाही भवितव्या। सः अवदत् यत् सः स्वयमेव पुनः एतेषां क्षेत्राणाम् निरीक्षणं करिष्यति। यदि पुनर्निरीक्षण-समये जलनिष्कासनस्य समुचिता व्यवस्था न दृश्यते तथा शिथिलता प्रकाशते, तर्हि सम्बन्धिता-धिकारिणां उत्तरदायित्वं निर्धारितं कृत्वा तेषां विरुद्धं कार्यवाही करिष्यते। सः अवदत् यत् प्रदेशस्य नगरीयक्षेत्रेषु नागरिकेभ्यः उत्तमाः सुव्यवस्थिताः च सुविधाः प्रदातुं सर्वकारस्य प्राथमिकता अस्ति। जलप्लावनम्, अस्वच्छता, जल-निष्कासनम् इत्यादीनां समस्याः समाधातुं कस्यापि स्तरे शिथिलता न सह्यते। तेन अधिकारिभ्यः क्षेत्रस्य स्थितौ निरन्तरं दृष्टिं स्थापयित्वा त्वरितां प्रभावीञ्च कार्यवाहीं सुनिश्चितं कर्तुं निर्देशः प्रदत्तः।
Hindusthan Samachar / Divya Ranjan