कटिहाराभियांत्रिकीमहाविद्यालये 'तेजस'इत्येषा जिलाकार्यशाला आयोजिता
कटिहारः, 03 सितंबरमासः (हि.स.)।भूमिस्तरीय-नवाचारस्य प्रोत्साहनाय तथा स्टार्टअप्-परितन्त्रस्य सुदृढीकरणस्य उद्देशेन गुरुवासरे कटिहार-अभियांत्रिकी-महाविद्यालयस्य सभागारे ‘तेजस्-जनपद-कार्यशाला-द्विसहस्रषड्विंशतिः’ इत्यस्य आयोजनं कृतम्। केन्द्रीय-वाणिज
तेजस डिस्ट्रिक्ट वर्कशॉप 2026’


कटिहारः, 03 सितंबरमासः (हि.स.)।भूमिस्तरीय-नवाचारस्य प्रोत्साहनाय तथा स्टार्टअप्-परितन्त्रस्य सुदृढीकरणस्य उद्देशेन गुरुवासरे कटिहार-अभियांत्रिकी-महाविद्यालयस्य सभागारे ‘तेजस्-जनपद-कार्यशाला-द्विसहस्रषड्विंशतिः’ इत्यस्य आयोजनं कृतम्। केन्द्रीय-वाणिज्य-उद्योग-मन्त्रालयस्य उद्योगसंवर्धन-आन्तरिकव्यापार-विभागस्य ‘स्टार्टअप्-इण्डिया’ इत्यनेन ‘स्टार्टअप्-बिहार’ इत्यस्य सहयोगेन आयोजिता अस्यां कार्यशालायां विद्यार्थिभ्यः नवोदित-उद्यमिभ्यश्च सर्वकारीययोजनानां, मार्गदर्शनस्य, वित्तपोषणस्य स्टार्टअप्-सम्भावनानां च विषये परिचयः प्रदत्तः।

कार्यशालां सम्बोधयन् जिलाधिकारी आशुतोषद्विवेदी स्टार्टअप्-नीतीनां उपयोगितायाः जनपदे नवाचाराधारितवातावरणस्य निर्माणस्य च महत्त्वस्य विषये विस्तरेण प्रकाशं पातितवान्। तेन युवानः नूतनैः विचारैः सह अग्रे आगन्तुं उपलब्धानाम् अवसराणां च पूर्णलाभं स्वीकर्तुं प्रेरिताः। अपरतः उपविकासायुक्ता डॉ. नेहाकुमारी उक्तवती यत् तेजसः इत्यादृशाः पहलाः भूमिस्तरे युवभ्यः सम्यग्मार्गदर्शनं मञ्चं च प्रददति। सा रेखाङ्कितवती यत् स्टार्टअप् केवलं स्वरोज़गारस्य साधनानि न सन्ति, अपितु नूतनरोजगारान् सृजित्वा स्थानीयार्थव्यवस्थां सुदृढां कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।

महाविद्यालयस्य प्राचार्या डॉ. रञ्जनाकुमारी छात्रेषु छात्रासु च नवाचाराधारितचिन्तनस्य विकासस्य आवश्यकतायाः विषये बलं दत्त्वा उक्तवती यत् अद्यतनयुवानः रोजगारान्वेषकाः न भूत्वा रोजगारप्रदातारः उद्यमिनः भवितुं दिशि अग्रे गच्छेयुः। जिलाउद्योगकेन्द्रस्य महाप्रबन्धकः मितेशकुमारशाण्डिल्यः सर्वकारीययोजनानां वित्तीयसहायतायाः च प्रावधानानां विषये सूचनां प्रदाय युवभ्यः तेषां लाभं स्वीकर्तुं आग्रहं कृतवान्। कार्यक्रमस्य प्राविधिकसत्रे स्टार्टअप्-इण्डियायाः प्रतिनिधिः शेषांशसिन्हा विस्तृतप्रस्तुतीकरणस्य माध्यमेन प्रतिभागिभ्यः स्टार्टअप्-परितन्त्रस्य, सर्वकारीयनीतीनां वित्तपोषणतन्त्रस्य च सूक्ष्मताभ्यः अवगतं कारितवान्।

समारोहे प्रतिभागिनां प्रतिभायाः परीक्षणाय प्रतियोगिताद्वयमपि आयोजितम्। श्रेष्ठ-प्रारूपस्य अथवा न्यूनतमव्यवहार्य-उत्पादस्य प्रतियोगितायां नवाचारपूर्णं प्रारूपं प्रस्तुत्य काजलकुमारी दशसहस्ररूप्यकाणां प्रथमपुरस्कारं, जगदीपसिंहः पञ्चसहस्ररूप्यकाणां द्वितीयपुरस्कारं तथा आशीषकुमारः त्रिसहस्ररूप्यकाणां तृतीयपुरस्कारं विजितवन्तः। अपरतः प्रस्तुतीकरण-प्रतियोगितायां उत्कृष्टव्यावसायिकप्रतिरूपाय ‘रोड विजन एआई’, ‘ब्लिस बाइट’ तथा ‘घरसेतु’ इत्येतेभ्यः त्रिसहस्रं त्रिसहस्रं रूप्यकाणां पुरस्कारः प्रदाय सम्मानिताः।

एषा कार्यशाला जनपदस्य युवभ्यः स्वकीयविचारान् सफलोद्यमेषु परिणमयितुं तथा आत्मनिर्भरतातः दिशि पदक्षेपान् कर्तुं महत्त्वपूर्णः मञ्चः सिद्धा अभवत्।

Hindusthan Samachar / Dheeraj Maithani