शिक्षायाः उद्देश्यं केवलं पदवीप्राप्तिः न, श्रेष्ठव्यक्तित्वस्य निर्माणम् अस्ति - डॉ. पण्ड्या
हरिद्वारम्, ०३ सेप्टेम्बरमासः (हि.स.)। देवसंस्कृतिविश्वविद्यालये नवप्रविष्टानां छात्रछात्राणाम् उन्नयनाय व्यक्तित्व-विकासाय च विशेषकार्यक्रमस्य आयोजनं कृतम्। अस्मिन् अवसरे विश्वविद्यालयस्य उपाध्यक्षः डॉ. चिन्मयपण्ड्या अवदत् यत् शिक्षायाः उद्देश्यः
कार्यक्रम का शुभारम्भ करते हुए


हरिद्वारम्, ०३ सेप्टेम्बरमासः (हि.स.)। देवसंस्कृतिविश्वविद्यालये नवप्रविष्टानां छात्रछात्राणाम् उन्नयनाय व्यक्तित्व-विकासाय च विशेषकार्यक्रमस्य आयोजनं कृतम्।

अस्मिन् अवसरे विश्वविद्यालयस्य उपाध्यक्षः डॉ. चिन्मयपण्ड्या अवदत् यत् शिक्षायाः उद्देश्यः केवलं पदवीं प्राप्तुं न, अपितु जीवनाय श्रेष्ठां दिशां प्रदातुम् अस्ति। सः विद्यार्थिभ्यः शिक्षया सह संस्कारान्, संस्कृतिं, सेवां जीवनमूल्यानि च आत्मसात् कर्तुम् आह्वानं कृतवान्। सः अवदत् यत् देवसंस्कृतिविश्वविद्यालयः विद्यार्थिनः आधुनिकशिक्षया सह भारतीयसंस्कृत्या मानवीयमूल्यैश्च योजयितुं कार्यं करोति। अत्रतः निर्गतः प्रत्येकं विद्यार्थी ज्ञानवान् भवनेन सह संवेदनशीलः, अनुशासितः उत्तरदायी नागरिकश्च भवेत्, एषा एव विश्व-विद्यालयस्य मूलभावना अस्ति। सः नवप्रविष्टान् विद्यार्थिनः समयस्य सदुपयोगं कर्तुं, निरन्तरं शिक्षितुं स्वलक्ष्यं प्रति च समर्पिताः भवितुं प्रेरितवान्।

कार्यक्रमे गायत्रीविद्यापीठव्यवस्था-मण्डलस्य प्रमुखा श्रीमती शेफालीपण्ड्या अवदत् यत् विद्यार्थिभिः अत्र प्राप्यमाणानाम् अवसराणां सदुपयोगं कृत्वा स्वव्यक्तित्वं परिष्कर्तव्यम्।

कार्यक्रमस्य अवधौ नवप्रविष्टानां विद्यार्थिनां विश्वविद्यालयस्य शैक्षणिक-परम्पराभिः, अनुशासनेन, संस्कारमय-जीवनेन विभिन्नाभिश्च सृजनात्मक-गतिविधिभिः परिचयः कारितः। अस्मिन् अवसरे विश्वविद्यालयस्य कुलसचिवः बलदाउदेवाङ्गनः, संकायाध्यक्षाः, विभागाध्यक्षाः, समस्ताः शिक्षकाः विद्यार्थिगणाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan