Enter your Email Address to subscribe to our newsletters

नव दिल्ली/वाशिंगटनम्, 04 सितंबरमासः (हि.स.)।
अमेरिकीयसॉफ्टवेयर-संस्था एडोब इत्यनया अनिलचक्रवर्ती स्वस्य नूतनम् अध्यक्षं मुख्यकार्यपालकाधिकारिणं च नियुक्तः अस्ति। सः शान्तनुनारायणस्य स्थानं स्वीकरिष्यति। चक्रवर्ती दिसम्बरमासस्य प्रथमदिनाङ्कात् स्वपदभारं स्वीकरिष्यति।
संस्थया प्रकाशिते विज्ञप्तौ कथितं यत् एडोब-संस्थया अनिलचक्रवर्ती नूतनः अध्यक्षः मुख्यकार्यपालकाधिकारी (सीईओ) च नियुक्तः अस्ति। चक्रवर्ती दिसम्बरमासस्य प्रथमदिनाङ्कात् पदभारं स्वीकरिष्यति। सः अष्टादशवर्षेभ्यः अधिककालं यावत् संस्थायाः नेतृत्वं कृतवतः शान्तनुनारायणस्य स्थानं स्वीकरिष्यति।
अपरतः शान्तनुनारायणः संस्थायां कार्यकारी-अध्यक्षस्य दायित्वं निर्वहिष्यति। बनारसहिन्दूविश्वविद्यालयस्य पूर्वविद्यार्थी अनिलचक्रवर्ती सम्प्रति एडोब-संस्थायाः ग्राहकानुभवप्रबन्धनव्यवसायस्य वैश्विकविक्रय-सञ्चालनस्य च अध्यक्षः अस्ति।
नारायणः उक्तवान्, ‘‘मम पूर्णः विश्वासः अस्ति यत् कृत्रिमबुद्धिमत्तायाः आधारिते युगे एडोब-संस्थायाः विकासस्य नेतृत्वं कर्तुं अनिलचक्रवर्ती योग्यतमः व्यक्तिः अस्ति।’’ सः उक्तवान् यत् कार्यकारी-अध्यक्षरूपेण स्वस्य नूतनदायित्वे चक्रवर्तिना सह कार्यं कर्तुं सः उत्सुकः अस्ति।
चक्रवर्ती जनवरीमासे वर्षे द्विसहस्रे विंशतितमे एडोब-संस्थायां सम्मिलितः अभवत्। तदा एडोब-संस्थया तं संस्थायाः ‘डिजिटल एक्सपीरियंस’ व्यवसायस्य नेतृत्वं कर्तुं कार्यकारी-उपाध्यक्षरूपेण महाप्रबन्धकरूपेण च नियुक्तम् आसीत्। सितम्बरमासे वर्षे द्विसहस्रे विंशतितमे सः संस्थायाः वैश्विकविक्रय-सञ्चालनस्य अतिरिक्तदायित्वमपि स्वीकृतवान्।
एडोब-संस्थायां सम्मिलितः भवितुं पूर्वं चक्रवर्ती चतुर्वर्षपर्यन्तं वैश्विक-उद्यम-मेघदत्तांशप्रबन्धन-संस्थायाः ‘इंफॉर्मेटिका’ इत्यस्य मुख्यकार्यपालकाधिकारी आसीत्।
उल्लेखनीयं यत् चक्रवर्तिना वाराणस्यां स्थितात् भारतीयप्रौद्योगिकीसंस्थानात् बनारसहिन्दूविश्वविद्यालयात् च सङ्गणकविज्ञानस्य अभियान्त्रिकीविषये प्रौद्योगिकी-स्नातकस्य उपाधिः प्राप्ता अस्ति। सः मैसाचुसेट्स-प्रौद्योगिकी-संस्थानात् विज्ञानविषये स्नातकोत्तरस्य तथा विद्यावारिधेः उपाधी अपि प्राप्तवान् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani