Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 04 सितंबरमासः (हि.स.)।समग्रशिक्षा-असमेन असमस्य विद्यालयीयशिक्षाक्षेत्रे कृत्रिमबुद्धिमत्ता-प्रौद्योगिकी-नवोन्मेषीशिक्षासमाधानानां च प्रयोगं प्रवर्धयितुं षड्भिः प्रमुखसंस्थाभिः सह समझौताज्ञापनानि हस्ताक्षरितानि। एषः औपचारिकः हस्ताक्षरसमारोहः शुक्रवासरे समग्रशिक्षा-असमस्य राज्य-मिशन-कार्यालये आयोजितः आसीत्।
असमस्य शिक्षामन्त्री डॉ. रनोज पेगुः मुख्यातिथिरूपेण अस्मिन् कार्यक्रमे सम्मिलितः अभवत्। समारोहे समग्रशिक्षा-असमस्य मिशननिदेशकः, समग्रशिक्षा-असमस्य कार्यकारीनिदेशकः, समग्रशिक्षा-असमस्य विशेषकर्तव्याधिकारी तथा सहभागीसंस्थानानां प्रतिनिधयः उपस्थिताः आसन्।
एतेषु समझौताज्ञापनेषु समग्रशिक्षा-असमस्य मिशननिदेशकेन षण्णां संस्थानानां प्रतिनिधिभिश्च हस्ताक्षराणि कृतानि। एतासां साझेदारीनाम् उद्देश्यं कृत्रिमबुद्धिमत्तायाः प्रौद्योगिक्याश्च प्रयोगेन शिक्षकाणां क्षमतां सुदृढीकर्तुम्, आधारभूतशिक्षायाः उन्नतिं कर्तुम्, मूल्याङ्कनप्रणालीं सुदृढां कर्तुम्, अङ्कीयसृजनशीलतां नवोन्मेषं च प्रवर्धयितुम् तथा विद्यालयात् बहिः स्थितानां किशोराणां नामाङ्कनाय तेषां विद्यालये धारणाय च सहाय्यं कर्तुम् अस्ति।
सहभागिसंस्थासु गूगल-एआई, आईआईटी-मद्रास-बोधन-एआई, एलईएचएस-वाधवानी-एआई, फाउण्डेशन-टु-एजुकेट-गर्ल्स-ग्लोबली अर्थात् एजुकेट-गर्ल्स, एकस्टेप-एक्सएल तथा कैनवा-शिक्षा च सन्ति।
एतेषां षण्णां समझौताज्ञापनानां हस्ताक्षरकरणम् असमस्य विद्यालयीयशिक्षाव्यवस्थां सुदृढीकर्तुं दिशि एकं महत्त्वपूर्णं सोपानम् अस्ति। अस्मिन् कृत्रिमबुद्धिमत्ता, अङ्कीयप्रौद्योगिकी, वैयक्तिकाधिगमः अर्थात् प्रत्येकबालकस्य आवश्यकतानुसारं शिक्षणम्, प्रौद्योगिकी-आधारितं मूल्याङ्कनम्, शिक्षकाणां क्षमतावर्धनं तथा विद्यालयात् बहिः स्थितानां बालकानां प्राप्त्यर्थं नवीनपद्धतीनां प्रयोगश्च अन्तर्भवन्ति।
एतासां साझेदारीनाम् माध्यमेन ‘समग्रशिक्षा-असम’ इत्यस्य उद्देश्यम् अस्ति यत् अधिकप्रौद्योगिकी-आधारितं, समावेशिनं छात्रकेन्द्रितं च शिक्षापरितन्त्रं निर्मीयेत। तत्सह शिक्षकाणां सशक्तीकरणं तथा सम्पूर्णराज्ये बालकेभ्यः किशोरेभ्यश्च अधिगमस्य उत्तमावसरान् उपलब्धीकर्तुमपि अस्य उद्देश्यम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani