Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०४ सेप्टेम्बरमासः (हि.स.)। श्रीकृष्णजन्माष्टमी-पर्वणः अवसरे भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिन नवीनः पूर्वकैलाशस्थितम् इस्कॉन-मन्दिरं प्राप्य भगवत: श्रीकृष्णस्य दर्शनं कृत्वा पूजार्चनां कृतवान्। अस्मिन् अवसरे तेन देशवासिनां सुख-शान्ति-समृद्धीनां च कामना कृता।
मन्दिरे पूजार्चनां कृत्वा नितिन नवीनः वार्तामाध्यमैः सह सम्भाषणे अवदत् यत् भगवान् श्रीकृष्णः अस्माकं सर्वेषाम् आराध्यः अस्ति। सः सदैव अस्य राष्ट्रस्य, सनातनपरम्पराणां संस्कृतेश्च ध्वजवाहकः अभवत्। तेन स्वजीवनं सम्पूर्णतः अधर्मस्य विनाशाय धर्मस्य स्थापनाय च समर्पितम्।
सः अवदत् यत् वयं सर्वे भगवान् श्रीकृष्णस्य जीवनात् प्रेरणां गृहीत्वा तस्य आदर्शान् स्वजीवने आचरितुं प्रयत्नं कुर्याम। तेन प्रार्थितं यत् भगवत: श्रीकृष्णस्य कृपा सर्वेषु भारतीयेषु, समस्ते हिन्दूसमाजे सनातनपरम्परायाः अनुयायिषु च सदैव वर्तेत तथा च देशे सर्वदा सुख-शान्ति-समृद्धीनां वातावरणं स्थिरं भवेत्।
भाजपाध्यक्षः अवदत् यत् भगवत: श्रीकृष्णस्य आशीर्वादेन भारतं निरन्तरं प्रगतिवैभवयोः पथि अग्रे गच्छेत् तथा च विश्वे तादृशं गौरवं प्राप्नुयात्, यादृशं गौरवं तेन स्वस्य स्वर्णिमे अतीते प्राप्तम् आसीत्।
Hindusthan Samachar / Divya Ranjan