Enter your Email Address to subscribe to our newsletters

कोलकाता, ०४ सेप्टेम्बरमासः (हि.स.)। श्रीकृष्णजन्माष्टम्याः अवसरे पश्चिम-बङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी प्रदेशवासिभ्यः हार्दिक्य: शुभकामनाः प्रदत्तवान्। सः सामाजिक-माध्यमस्य माध्यमेन भगवन्तं श्रीकृष्णं प्रति श्रद्धां प्रकटयन् सर्वेषां सुखस्य, शान्तेः समृद्धेश्च कामनां कृतवान्।
मुख्यमन्त्री शुभेन्दु-अधिकारी स्वसन्देशे अवदत् यत् अधर्मस्य विनाशाय धर्मस्य स्थापनाय च भगवान् श्रीकृष्णः अस्मिन् धरणीतले अवतीर्णवान्। सः अवदत् यत् भगवत: श्रीकृष्णस्य प्रेम्णा श्रीमद्भ-गवद्गीतायाः ज्ञानेन च सर्वेषां जीवनम् आलोकितं भवतु।
मुख्यमन्त्री शुभेन्दु-अधिकारी लोकनाथ-जयन्त्याः अवसरेऽपि प्रदेशवासिभ्यः शुभकामनाः प्रदत्तवान्। सः सर्वेषां सुखस्य, शान्तेः मङ्गलमयजीवनस्य च कामनां कुर्वन् लोकनाथजयन्त्याः शुभकामनाः प्रेषितवान्।
मन्त्रिमण्डलस्य सदस्या अग्निमित्रा पाल: अपि जन्माष्टम्याः अवसरे प्रदेशवासिभ्यः शुभकामनाः प्रदत्तवती। सा अवदत् यत् भगवान् श्रीकृष्णस्य प्रेम्णः, ज्ञानस्य, न्यायस्य धर्मस्य च सन्देशैः सर्वे सत्यस्य सदाचारस्य च मार्गे चलितुं प्रेरणां प्राप्नुयुः। सा कामनां कृतवती यत् भगवत: श्रीकृष्णस्य आशीर्वादेन सर्वेषां जीवने सुखस्य, शान्तेः, समृद्धेः मङ्गलस्य च वासः भवतु।
Hindusthan Samachar / Divya Ranjan