Enter your Email Address to subscribe to our newsletters

भारतीयेतिहासे ०५ सेप्टेम्बरमासस्य तिथिः नीरजा भनोट्-महोदयायाः अदम्यसाहसस्य बलिदानस्य च कृते स्मर्यते। १९८६ तमे वर्षे केवलं द्वाविंशतिवर्षीया नीरजा पैन-एम्-७३ इति विमानस्य शतशः यात्रिणां प्राणरक्षार्थं स्वजीवनं समर्पितवती।
मुम्बईतः न्यूयोर्कनगरं प्रति गच्छदिदं विमानं कराची-नगरस्य जिन्ना-अन्ताराष्ट्रियविमानपत्तने विरामं कृतवती आसीत्। तस्मिन्नेव समये चत्वारः सशस्त्राः आतङ्कवादिनः विमानस्य अपहरणं कृतवन्तः। विमानचालकानां विमानात् निर्गमनानन्तरं वरिष्ठा विमानपरिचारिका नीरजा यात्रिणां सुरक्षायाः दायित्वं स्वीकृतवती।
आतङ्कवादिनः अमेरिकी-नागरिकाणां परिचयार्थं सर्वेषां यात्रिणां पारपत्राणि संग्रहीतुं निर्दिष्टवन्तः। नीरजया ज्ञात्वा प्रदर्शयन्त्या अमेरिकी-यात्रिणां पारपत्राणि गोपितानि। अनेन आतङ्कवादिनां योजना विफला अभवत्।
प्रायः सप्तदशहोरापर्यन्तं चले अस्मिन् घटनाक्रमे नीरजया आपत्कालीनद्वारम् उद्घाट्य यात्रिणां विमानात् बहिः निर्गमने साहाय्यं कृतम्। सा बहुसंख्याकान् यात्रिण: सुरक्षिततया बहिः निष्कासयितुं सफलाभवत्। बालकानां रक्षणस्य प्रयत्नकाले आतङ्कवादिनां गुटिकाभिः आहता नीरजा वीरगतिं प्राप्तवती।
तस्याः अदम्यसाहसस्य कृते भारत-सर्वकारेण तस्यै मरणोत्तरम् अशोकचक्रसम्मानं प्रदत्तम्। पाकिस्तान-देशेन ‘तमग़ा-ए-इन्सानियत्’ इति सम्मानं तथा अमेरिकादेशेन अपि तस्याः वीरतायै सम्मानं प्रदत्तम्। नीरजायाः कथा अद्यापि साहसस्य मानवतायाश्च आदर्शरूपेण स्मर्यते।
महत्त्वपूर्णाः घटनाः
१६६६ — लण्डननगरे जातया भीषणया अग्निदुर्घटनया १३,२०० गृहाणि क्षतिग्रस्तानि अभवन्, अष्ट जनाः च मृताः।१७९८ — फ्रान्सदेशे अनिवार्यसैन्यसेवासम्बन्धी विधिः प्रभावे आगतः।१८३६ — सैम ह्यूस्टन् टेक्सास-गणराज्यस्य राष्ट्रपतित्वेन निर्वाचितः।१८३९ — चीनदेशे प्रथमम् अफीमयुद्धम् आरब्धम्।१८८८ — भारतस्य द्वितीयस्य राष्ट्रपतेः डॉ. सर्वपल्ली-राधाकृष्णनस्य जन्म अभवत्। अयं दिवसः अद्यापि भारते शिक्षकदिवसरूपेण आचर्यते।१९१४ — ब्रिटेन-फ्रान्स-बेल्जियम-रूसदेशानां मध्ये लण्डन-सन्धिः अभवत्।१९४४ — ब्रिटेनदेशस्य प्रधानमन्त्री विंस्टन् चर्चिल् स्वकीयां स्कॉटलैण्ड्-यात्राम् आरब्धवान्।१९६० — अमेरिकी-मुष्टियुद्धकः मुहम्मद अली रोम-ओलम्पिक्-क्रीडास्पर्धायां १७५-पाउण्ड्-वर्गे स्वर्णपदकं प्राप्तवान्। ततः सः व्यावसायिकं क्रीडाजीवनं स्वीकृत्य प्रसिद्धः मुष्टियुद्धकः अभवत्।१९७२ — म्यूनिख्-ओलम्पिक्-क्रीडायाः समये फिलिस्तीनी ‘ब्लैक सितम्बर’ इति समूहस्य सदस्यैः ११ इजरायली-क्रीडकाः बन्धकाः कृताः, पश्चात् ते हताः च।१९७५ — पुर्तगालस्य प्रधानमन्त्री गोंसालवेज् स्वपदात् त्यागपत्रं दत्तवान्।१९७७ — नासासंस्थया ‘वॉयेजर-१’ इति अन्तरिक्षयानं प्रक्षेपितम्। अद्यावधि इदं पृथिवीतः सर्वाधिकदूरं प्रेषितं मानव-निर्मितं वस्तु अस्ति।१९८० — विश्वस्य दीर्घतमेषु सुरुङ्गमार्गेषु एकः आरब्धः। स्विट्जरलैण्डदेशस्य सेन्ट्-गोथार्ड्-सुरुङ्गमार्गस्य दीर्घता १०.१४ मील् अर्थात् १६.२२ किलोमीटर अस्ति।१९८४ — ‘स्पेस शटल डिस्कवरी’ इति अन्तरिक्षयानं प्रथमाम् अन्तरिक्षयात्रां समाप्य प्रत्यागतम्।१९८७ — अमेरिकी-टेनिस्-क्रीडकः जॉन मॅकनरॉय् स्वकीयवक्तव्यस्य कृते १७,५०० डॉलर्-मितं दण्डं प्राप्तवान्।१९९१ — नेल्सन् मण्डेला आफ्रिकन-नेशनल-काङ्ग्रेस-सङ्घटनस्य अध्यक्षत्वेन निर्वाचितः।१९९७ — अन्ताराष्ट्रिय-ओलम्पिक-समित्या २००४ तमे वर्षे आयोज्यमानानां ग्रीष्मकालीन-ओलम्पिकक्रीडाणाम् आयोजनस्थलं एथेन्स-नगरं निश्चितम्।१९९९ — वाई-नदी-सन्धेः कार्यान्वयनाय तथा स्थगितां पश्चिम-एशियाशान्तिवार्तां पुनः प्रवर्तयितुं इजरायलस्य प्रधानमन्त्री एहुद् बारक् तथा यासिर-अराफात: इत्येताभ्यां मिस्रदेशस्य शर्म-अल-शेख-नगरे शान्तिसन्धौ हस्ताक्षराणि कृतानि।२००० — नील्जिमा लाम्बा अन्ताराष्ट्रिय-महिला-सङ्घटनस्य अध्यक्षपदे नियुक्ता। सा अस्मिन् पदे आसीना प्रथमा एशियामहिला अभवत्।२००१ — फिजीदेशे महेन्द्र: चौधरी, जॉर्ज स्पेट् तथा लाइसेनिया करासे संसदः सदस्यत्वेन निर्वाचिताः।२००२ — अफगानिस्तानस्य राष्ट्रपतिः हामिद् करजई प्राणघातकस्य आक्रमणस्य लक्ष्यं जातः, किन्तु सः सुरक्षितः अभवत्।२००५ — मण्डला-एयरलाइन्स्-संस्थायाः ०९१ क्रमाङ्कितं विमानं इन्डोनेशियादेशस्य सुमात्राद्वीपे आवासीयक्षेत्रे दुर्घटनाग्रस्तम्। तस्मिन् विमानस्थेषु १०४ जनेषु अतिरिक्तं आवासीयक्षेत्रस्य ३९ जनाः अपि मृताः।२००८ — रतन टाटा इत्यस्य नेतृत्वे भारतीय-वाहन-निर्माता-सङ्घस्य प्रतिनिधिमण्डलेन प्रधानमन्त्री मनमोहनसिंहः मिलितः।२००९ — राष्ट्रिय-शेयर-विपण्यया दश निर्माणिभ्यः शेयर-विपण्यां व्यापारं कर्तुं प्रतिबन्धः आरोपितः।२०१४ — विश्वस्वास्थ्यसङ्घटनस्य अनुमानानुसारं गिनी, लाइबेरिया, नाइजीरिया, सेनेगल तथा सिएरालियोन इत्येतेषु देशेषु इबोला-विषाणुना संक्रमितेषु ३५०० जनेषु १९०० जनाः मृताः।२०१९ — हैदराबाद-नगरे इर्रामट्टी मङ्गम्मा ७४ वर्षे वयसि युग्मशिशूनां जन्मदात्री भूत्वा विश्वस्य वयोवृद्धतमा माता अभवत्।
जन्म
१८७२ — चिदम्बरम् पिल्लै — तमिलभाषायाः विद्वान् प्रख्यातश्च समाजसुधारकः।१८८८ — सर्वपल्ली राधाकृष्णन् — भारतस्य द्वितीयः राष्ट्रपतिः।१९०५ — वाचस्पतिपाठक: — प्रसिद्धः उपन्यासकारः।१९१० — फिरोज: पलिया — भारतीयः क्रिकेट्-क्रीडकः।१९३३ — लक्ष्मीनारायण: रामदास: — अन्ताराष्ट्रियस्तरे शान्तिस्थापनाय ‘रेमन मैग्सेसे पुरस्कार’प्राप्तः भारतीयः।१९३८ — अमृत: तिवारी — भारतीयः दन्तचिकित्सिका।१९५८ — के. के. अग्रवाल: — भारतीयः चिकित्सकः हृदयरोगविशेषज्ञश्च।१९८६ — प्रज्ञान-ओझा — भारतीयः क्रिकेट्-क्रीडकः।१९९३ — अजीतसिंह: यादव: — भालाप्रक्षेपणक्रीडायां भारतीयः पैरा-क्रीडकः।
निधनम्
१९१८ — रतनजी टाटा — ‘टाटा-समूहस्य’ संस्थापकानां चतुर्णाम् अन्यतमः।१९८६ — नीरजा भनोट् — अशोकचक्रविजेतृ विमानपरिचारिका।१९८६ — अम्बिका प्रसाद दिव्य — भारतस्य प्रसिद्धः शिक्षाविद् हिन्दी-साहित्यकारश्च।१९८८ — आर. डी. भण्डारे — भारतीयः राजनीतिज्ञः, न्यायविद्, अम्बेडकरवादी कार्यकर्ता च।१९९१ — शरद: जोशी — भारतीयः व्यङ्ग्यलेखकः।१९९५ — सलिल: चौधरी — हिन्दीचलच्चित्रजगतः प्रसिद्धः भारतीयः सङ्गीतकारः।१९९७ — मदरटेरेसा — विश्वप्रसिद्धा समाजसेविका।
महत्त्वपूर्णाः अवसराः
शिक्षकदिवसः।
राष्ट्रियपोषणदिवसः (पोषणसप्ताहः)।
Hindusthan Samachar / Divya Ranjan