Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ४ सितम्बरमासः (हि.स.)। भारतस्य छात्रदलेन १९ तमे अन्ताराष्ट्रिय-पृथ्वीविज्ञान-ओलम्पियाड्-२०२६ इत्यस्मिन् उत्कृष्टं प्रदर्शनं कृत्वा इतिहासः रचितः। भारतीयछात्रदलेन ९ पदकानि—४ सुवर्णपदकानि, ३ रजतपदकानि, २ कांस्यपदकानि च—विजितानि। एतत् प्रतियोगितायां भारतस्य अद्यावधि सर्वश्रेष्ठं प्रदर्शनम् अस्ति। केन्द्रीय-पृथ्वीविज्ञान-राज्यमन्त्री (स्वतन्त्रप्रभारः) डॉ. जितेन्द्रसिंहः शुक्रवासरे पृथ्वीभवने आईईएसओ-विजेतृभिः भारतीयच्छात्रैः सह मिलित्वा तान् सम्मानितवान्। तेन छात्राणां, तेषां अभिभावकानां विद्यालयानां च अस्याः उपलब्धेः कृते अभिनन्दनं कृतम्।आईईएसओ-स्पर्धायाः आयोजनं २०२६ तमस्य वर्षस्य अगस्त-मासस्य २० दिनाङ्कतः २७ दिनाङ्कपर्यन्तम् इटलीदेशस्य ट्यूरिन-नगरे अभवत्। प्रतियोगितायां ३९ देशानां छात्राः भागं गृहीतवन्तः। भारतीयविद्यार्थिभिः लिखित-परीक्षायां प्रायोगिक-परीक्षायां च उत्कृष्टं प्रदर्शनं कृतम्। तदतिरिक्तं अन्ताराष्ट्रिय-दलस्य क्षेत्रीय-अन्वेषणे तथा पृथ्वीविज्ञान-परियोजनायाम् अपि ते उत्कृष्टतां प्रदर्शितवन्तः।
भारतस्य सौमिकमण्डलेन सर्वश्रेष्ठं प्रदर्शनं कृतम्। दुर्गापुरस्य डीएवी मॉडल विद्यालयस्य सौमिकेन २ सुवर्णपदकानि १ रजतपदकं च प्राप्तम् तथा ३९ देशानां प्रतिभागिषु सः तृतीयं स्थानं प्राप्तवान्। खड़गपुरस्य डीएवी मॉडल विद्यालयस्य, आईआईटी-केजीपी-संस्थायाः च एरॉनमैती इत्यनेन १ सुवर्णपदकं १ कांस्यपदकं च प्राप्तम्। पटनानगरस्य ज्ञानस्थली-अन्ताराष्ट्रियविद्यालयस्य रिद्धिरञ्जनेन १ सुवर्णपदकं १ रजतपदकं च प्राप्तम्। जे.एन.वी. विद्यालयस्य मो. एहतशामरिजवी इत्यनेन १ रजतपदकं १ कांस्यपदकं च प्राप्तम्।
१७,८०० छात्रैः आरब्धा चयनप्रक्रिया
अस्याः सफलतायाः पृष्ठे व्यापकः राष्ट्रियः चयन-प्रशिक्षण-क्रमः आसीत्। देशस्य विभिन्नभागेभ्यः प्रायः १७,८०० विद्यार्थिनः राष्ट्रिय-चयन-परीक्षायां भागं गृहीतवन्तः। परीक्षा प्रायः ५०० केन्द्रेषु आयोजिता। ततः चयनितेभ्यः शीर्षस्थेभ्यः २५ विद्यार्थिभ्यः २०२६ तमस्य वर्षस्य जून-मासे गुजरातस्य वडोदरानगरे स्थिते एम.एस. विश्वविद्यालये त्रिसप्ताहात्मकं गहनप्रशिक्षणं प्रदत्तम्।
अस्मिन् अवसरे डॉ. जितेन्द्रसिंहः उक्तवान् यत् सर्वकारः युवकेषु वैज्ञानिकचिन्तनस्य अनुसन्धानस्य च भावनां प्रोत्साहयितुं छात्रकेन्द्रित-कार्यक्रमान् निरन्तरं प्रवर्धयति। आईईएसओ इत्यनेन सह डीप् ओशन मिशन, अभियान-ऋतुः तथा पृथ्वी इत्यादयः उपक्रमाः अपि देशे वैज्ञानिकजागरूकतां वर्धयितुं भविष्यस्य वैज्ञानिकानां निर्माणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति। भारतस्य नवभिः पदकैः युक्तं एतत् प्रदर्शनम् आईईएसओ-इतिहासे देशस्य अद्यावधि सर्वाधिकं महत्त्वपूर्णं साफल्यम् अस्ति।
Hindusthan Samachar / Divya Ranjan