योग्या: व्यक्तयः ३० सेप्टेम्बरपर्यन्तं प्रपत्र-६ पूरयित्वा मतदातृसूच्यां नाम योजयितुं शक्नुवन्ति
नवदिल्ली, ४ सेप्टेम्बरमासः (हि.स.)। दिल्ली इत्यस्य मुख्यनिर्वाचनाधिकारिणः कार्यालयस्य पक्षतः उक्तं यत् विशेषगहन-पुनरीक्षणस्य अन्तर्गतं गणनाप्रपत्रं समर्पयितुं न शक्नुवन्तः योग्या: मतदातारः अद्यापि स्वनाम मतदातृसूच्यां समावेशयितुं शक्नुवन्ति। ते ३०
भारतीय निर्वाचन


नवदिल्ली, ४ सेप्टेम्बरमासः (हि.स.)। दिल्ली इत्यस्य मुख्यनिर्वाचनाधिकारिणः कार्यालयस्य पक्षतः उक्तं यत् विशेषगहन-पुनरीक्षणस्य अन्तर्गतं गणनाप्रपत्रं समर्पयितुं न शक्नुवन्तः योग्या: मतदातारः अद्यापि स्वनाम मतदातृसूच्यां समावेशयितुं शक्नुवन्ति। ते ३० सेप्टेम्बरपर्यन्तं कथनानाम् आपत्तीनां च चरणे निर्धारितं घोषणापत्रं आवश्यक-तथ्यानि इत्येतै: च सह प्रपत्र-६ पूरयितुं शक्नुवन्ति। तदनन्तरं अन्तिमा मतदातृसूची ४ नवम्बरदिने प्रकाशिताः भविष्यति।

मुख्यनिर्वाचनाधिकारिणः कार्यालयेन प्रारूपमतदातृसूचीम् अनुपस्थितानां, स्थानान्तरितानां, मृतानां, द्विरावृत्तना-मयुक्तानां च मतदातॄणां सूचीं च विषये मुद्रितमाध्यमेषु सामाजिकमाध्यमेषु च प्रकाशितासु वार्तासु उत्थापितानां प्रश्नानां विषये विस्तृतं स्पष्टीकरणं प्रदत्तम्। कार्यालयेन सूचितं यत् दिल्ली इत्यत्र मतदातृसूच्याः गहनपुनरीक्षणस्य अन्तर्गतं प्रारूपमतदातृसूची ३१ अगस्तदिने प्रकाशिताभवत्।

कार्यालयस्य अनुसारं ३० जूनतः १७ अगस्तपर्यन्तं बूथस्तरीयनिर्वाच-नाधिकारिणः गृहं गृहं गत्वा पूर्वमेव मुद्रितानि गणनाप्रपत्राणि वितरितवन्तः तथा मतदातॄणां सत्यापनं कृतवन्तः। अस्मिन् काले ये मतदातारः स्वपञ्जीकृतपतेः न प्राप्ताः अथवा तस्मात् स्थानान्तरिताः इति ज्ञाताः, ते निर्धारितप्रक्रियानुसारम् एएसडीडी-वर्गे स्थापिताः। बीएलओभिः गृहं गृहं सत्यापनस्य आरम्भात् पूर्वं मतदानकेन्द्र-स्तरीयनियुक्तेभ्यः प्रतिनिधिभ्यः एतस्मिन् विषये सूचना प्रदत्ता आसीत् तथा तैः सह समये समये सभाः अपि आयोजिताः आसन्।

कार्यालयेन उक्तं यत् कञ्चन मतदारं केवलम् अनुमानस्य आधारेण ‘स्थानान्तरितम्’ इति न मन्यते। गृहं गृहं सत्यापनस्य समये तस्य पुष्टिः कृता अनन्तरमेव सः तस्मिन् वर्गे स्थापितः। बीएलओतः प्राप्तसूचनायाः आधारेण एएसडीडी-मतदातॄणां सूची भारतनिर्वाच-नायोगेन निर्धारितप्रारूपे ईसीआई-नेट्-माध्यमेन सिद्धा कृता तथा मुख्यनिर्वाचनाधिकारिणः, दिल्ली इत्यस्य जालपुटे उपलब्धा कारिता अस्ति।

येषां मतदातॄणां गणनाप्रपत्राणि निर्धारितसमये प्राप्तुं न शकितानि, ते पञ्चसु वर्गेषु विभक्ताः सन्ति। एतेषु मृताः, अप्राप्याः अथवा अनुपस्थिताः, स्थायिरूपेण स्थानान्तरिताः, पूर्वमेव नामाङ्किताः, अन्ये च इति वर्गाः सन्ति। कञ्चन मतदारं कस्मिन् विशेषकारणेन सम्बन्धितवर्गे स्थापितम् इति ज्ञातुं बीएलओ-पक्षतः उपारोपितानि सभायाः कार्यवृत्तानि द्रष्टुं शक्यन्ते।

एएसडीडी-सूच्यां समाविष्टानां मतदातॄणां पतयः उपलब्धाः न कारिताः इति आरोपाणां विषये कार्यालयेन उक्तं यत् राजनीतिकदलैः मतदानकेन्द्रस्तरे नियुक्तेभ्यः बीएलए-२ प्रतिनिधिभ्यः बीएलओ-सहितासु सभासु सम्बन्धित-मतदातॄणां पतयः लिखितुं निर्दिष्टम् आसीत्। राजनीतिकदलेभ्यः पत्रं प्रेष्य स्वकीयप्रतिनिधीन् बीएलओ-सहितं सम्पर्कं कृत्वा एएसडीडी-सूच्यां समाविष्टानां मतदातॄणां पतयः प्राप्तुं निर्देशयितुम् अपि अनुरोधः कृतः।

प्रपत्र-८ कश्चित् विद्यमानमतदाता निर्वाचनक्षेत्रस्य अन्तः बहिर्वा निवासस्थानं परिवर्तयितुं, विवरणेषु संशोधनं कर्तुं, संशोधनं विना ईपीआईसी-परिचयपत्रं परिवर्तयितुं तथा दिव्याङ्गमतदारं चिह्नितुं निर्धारितघोषणापत्रेण सह सहायकतथ्यै: च समर्पयितुं शक्नोति। आवेदनपत्राणि निर्वाचनपञ्जीकरणाधिकारिण:, सहायक-निर्वाचनपञ्जीकरणाधिकारिणः, बीएलओ तथा मतदानकेन्द्रेषु निर्दिष्टेषु स्थानेषु प्रत्यक्षरूपेण समर्पयितुं शक्यन्ते। सीईओ-कार्यालयेन सूचितं यत् निर्वाचना-योगस्य मतदातृसेवापोर्टल्-माध्यमेन ईसीआईनेट्-मोबाइल-अनु-प्रयोगेन च अन्तर्जाल-आवेदनानि अपि समर्पयितुं शक्यन्ते।

नवीननाम्नः कृते प्रपत्र-६ पूरयतां मतदातॄणाम् अपि निर्धारितं घोषणापत्रम् आवश्यकतथ्यानि च समर्पयितव्यानि भविष्यन्ति। कथनानां आपत्तीनां च अवधि ३० सेप्टेम्बरदिने समाप्तेः अनन्तरं सम्पूर्णां प्रक्रियां समाप्य अन्तिमा मतदातृसूची ४ नवम्बरदिने प्रकाशिताः भविष्यति।

Hindusthan Samachar / Divya Ranjan